This page has been fully proofread once and needs a second look.

किन्तु प्रतपति धिगहो दुष्कृतं[^१] दुर्विदग्धं, ममैव पूर्व्वातिर्ज्जितदुष्कृत-
मनुचितं दुर्विदग्धं दुष्परिपाकं[^२] पीड़यति सन्तापयतीति धिगहो
कष्टमाश्चर्य्ये । अनेनात्मनो मन्दभाग्यमावेदितमिति भावः ।
 
पुनरपि सोत्कर्षगर्भामात्मनो निन्दामावेदयन्नाह--
 
धिग् धिग् मां मन्दभाग्यं दिवसकररुचाप्यप्रणुत्तान्धकारं
तृष्यन्तं कूलकच्छे हिमशकलशिलाशीतले हैमवत्याः ।
रत्नदीपप्रतोल्या विपुलमणिगुहागेहगर्भे दरिद्रं
नाथीकृत्याप्यनाथं भगवति भवतोंतीं सर्वलोकैकधात्रीम् ॥ ४ ॥
 
॥ ४ ॥ घिधिग् धिगित्यादि--
 
हे भगवति भवर्ती सर्व्वलोकैकधात्रीं सर्व्वे अपर्य्यन्तलोकधातु-
स्थिता ये लोका जनास्तेषामद्वितीयामेकां धात्रीं परिपालिकां
त्वां नाथीकृत्यापि शरणीकृत्यापि ऐश्वर्य्येण आश्रित्यापि अनाथ-
मशरणमिति कृत्वा मन्दभाग्यमल्पपुण्यं मां धिग्धिगिति निन्दा-
भिधानम् । न केवलम् एवं दिवसकरस्य रवेः रुक् दीप्तिस्तयाप्य -
परिमितजगदन्धतमोध्वंसिकया[^३] अप्रणुत्तोऽनपगतोऽन्धकारो यस्य
तं दिवसकरस्येव रुक् कान्तिर्यस्याः सा तया एवंभूतयापि त्वया
अमेयकिरणया अज्ञानतमिस्रोत्सारिकयापि[^४] अविनष्टाज्ञानान्ध-
कारं, किञ्च हैमवत्याः सुरसरितः कूलकच्छे तीरप्रान्ते । कीदृशे ?
-----------------------------------------------------------------------------------------
[^१] Orig. दुःकृतं । [^२] Orig. दुःपरिपाकं ।
[^३] Orig. जगदन्धं तमोध्वंसिकया । [^४] Orig. तमिश्रौत्सारिकया ।