This page has been fully proofread once and needs a second look.

किन्तु प्रतपति धिगहो दुष्कृतं[^१] दुर्विदग्धं, ममैव पूर्व्वातिदुष्कृत-
मनुचितं दुर्विदग्धं दुष्परिपाकं[^२] पौपीड़यति न्तापयतीति धिगहो
कष्टमाञ्श्चर्ये। अनेनात्मनो मन्दभाग्यमावेदितमिति भावः ।
 
पुनरपि सोत्कर्षगर्भामात्मनो निन्दामावेदयन्नाह--
 
धिग् धिग् मां मन्दभाग्यं दिवसकरतचाप्यप्रणुत्तान्धकारं
तृष्यन्तं कूलकच्छे हिमशकल
शिलाशीतले हैमवत्याः ।
रत्नदीपप्रतोल्या विपुलमणिगुहागेहगर्भे दरिद्रं
नाथौथीकृत्याप्यनाथं भगवति भवतों सर्वलालोकैकधाचीत्रीम् ॥ ४ ॥
 
॥ ४ ॥ घिधिगित्यादि--

हे भगवति भवर्ती सर्व्वलोकैकधात्रीं सर्व्वे पर्य्यन्त लोकधातु-
स्थिता ये लोका जनास्तेषामद्वितीयामेकां धात्रीं परिपालिकां
त्वां नाथोथीकृत्यापि रणीकृत्यापि ऐश्वर्येण आश्रित्यापि अनाथ-
मशरणमिति कृत्वा मन्दभाग्यमन्ल्पपुण्यं मां धिग्धिगिति निन्दा-
भिधानम् । न केवलम् एवं दिवसकरस्य रवेः रुक् दीप्तिस्तयाप्य -
परिमितजगदन्धतमोध्वंसिकया[^३] अप्रणुत्तोऽनपगतोऽन्धकारो यस्य
तं दिवसकरस्येव रुक् कान्तिर्यस्याः सा तया एवंभूतथायापि त्वया
श्रमेयकिरणया अज्ञानतमिस्रोत्सारिकयापि[^४] श्रविनष्टाज्ञानान्ध-
कारं, किञ्च हैमवत्याः सुरसरितः कूलकच्छे तौरमातीरप्रान्ते । कौकीदृशे ?
-----------------------------------------------------------------------------------------
[^१] Orig. दुःकृतं । [^२] Orig. दुःपरिपाकं ।
[^३] Orig. जगदन्धं तमोध्वंसिकया । [^४] Orig. तमिश्रौत्सारिकया ।