This page has been fully proofread once and needs a second look.

किन्तु प्रतपति धिगहो दुष्कृतं[^१] दुर्विदग्धं, ममैव पूर्व्वातिदुष्कृत
मनुचितं दुर्विदग्धं दुष्परिपाकं[^२] पौड़यति मन्तापयतीति धिगहो
कष्टमाञ्चर्ये। अनेनात्मनो मन्दभाग्यमावेदितमिति भावः ।
 
पुनरपि सोत्कर्षगर्भामात्मनो निन्दामावेदयन्नाह
 
धिग् धिग् मां मन्दभाग्यं दिवसकरतचाप्यप्रणुत्तान्धकारं
तृष्यन्तं कूलकच्छे हिमशकल
शिलाशीतले हैमवत्याः ।
रत्नदीपप्रतोल्या विपुलमणिगुहागेहगर्भे दरिद्रं
नाथौकृत्याप्यनाथं भगवति भवतों सर्वलाकैकधाचीम् ॥ ४ ॥
 
॥ ४ ॥ घिधिगित्यादि-
हे भगवति भवर्ती सर्व्वलोकैकधान सर्व्वे पर्य्यन्त लोकधातु-
स्थिता ये लोका जनास्तेषामद्वितीयामेकां धात्र परिपालिकां
त्वां नाथोकृत्यापि भरणीकृत्यापि ऐश्वर्येण त्यापि अनाथ-
मशरणमिति कृत्वा मन्दभाग्यमन्पपुण्यं मां धिधिगिति निन्दा-
भिधानम् । न केवलम् एवं दिवसकरस्य रवेः रुक् दीप्तिस्तयाप्य -
परिमितजगदन्धतमोध्वंसिकया[^३] अप्रणतोऽनपगतोऽन्धकारो यस्य
तं दिवसकरस्येव रुक् कान्तिर्यस्याः सा तया एवंभूतथापि त्वया
श्रमेयकिरणया अज्ञानतमिस्रोत्सारिकयापि[^४] श्रविनष्टाज्ञानान्ध-
कारं, किञ्च हैमवत्याः सुरसरितः कूलकच्छे तौरमान्ते । कौदृशे ?
-----------------------------------------------------------------------------------------
[^१] Orig. दुःकृतं । [^२] Orig. दुःपरियाकं ।
[^३] Orig. जगदन्धं तमोध्वंसिकया । [^४] Orig. तमिश्रौत्सारिकया ।