This page has been fully proofread once and needs a second look.

बौद्धस्तोत्रसंग्रहः ।
 
किन्तु प्रतपति धिगहो दुष्कृतं दुर्विदग्धं, ममैव पूर्व्वातिदुष्कृत

मनुचितं दुर्विदग्धं दुष्परिपाक पौड़यति मन्तापयतीति धिगहो

कष्टमाञ्चर्ये। अनेनात्मनो मन्दभाग्यमावेदितमिति भावः ।
 
C
 

 
पुनरपि सोत्कर्षगर्भामात्मनो निन्दामावेदयन्नाह
 

 
धिग् धिग् मां मन्दभाग्यं दिवसकरतचाप्यप्रणुत्तान्धकारं

तृष्यन्तं कूलकच्छे हिमशकल

शिलाशीतले हैमवत्याः ।

रत्नदीपप्रतोल्या विपुलमणिगुहागेहगर्भे दरिद्रं

नाथौकृत्याप्यनाथं भगवति भवतों सर्वलाकैकधाचीम् ॥
 
४ ॥
 
॥ ४ ॥ घिधिगित्यादि-

हे भगवति भवर्ती सर्व्वलोकैकधान सर्व्वे पर्य्यन्त लोकधातु-

स्थिता ये लोका जनास्तेषामद्वितीयामेकां धात्र परिपालिकां

त्वां नाथोकृत्यापि भरणीकृत्यापि ऐश्वर्येण त्यापि अनाथ-

मशरणमिति कृत्वा मन्दभाग्यमन्पपुण्यं मां धिधिगिति निन्दा-

भिधानम् । न केवलम् एवं दिवसकरस्य रवेः रुक् दीप्तिस्तयाप्य -

परिमितजगदन्धतमोध्वंसिकया प्रणतोऽनपगतोऽन्धकारो यस्य

तं दिवसकरस्येव रुक् कान्तिर्यस्याः सा तया एवंभूतथापि त्वया

श्रमेयकिरणया अज्ञानतमिस्रोत्सारिकयापि श्रविनष्टाज्ञानान्ध-

कारं, किञ्च हैमवत्याः सुरसरितः कूलकच्छे तौरमान्ते । कौदृशे ?
 
G
 

-----------------------------------------------------------------------------------------
९ Orig. दुःकृतं ।
 

 
२ Orig. दुःपरियाकं ।
 

 
३ Orig. जगदन्धं तमोध्वंसिकया । 8 Orig. तमिश्रौत्सारिकया ।