This page has been fully proofread once and needs a second look.

कृपामासामर्थ्यारम्भाभावात् कथमनुकम्पयतीत्याशङ्क्याह--

सर्वस्मिन् सत्त्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता
तन्मध्ये तद्ग्रहेण ग्रहणमुपगतं मादृशस्याप्यवश्यम् ।
सामर्थ्य चाहितौद्वितीयं सकलजगदघध्वान्ततिग्मांशु[^१] विम्बं
दुःख्येवाहं तथापि प्रतपति धिगहो दुष्कृतं[^२] दुर्विदग्धम् ॥
 
॥ ३ ॥ सर्व्वस्मिन्निति--
 
ननु हे भगवति तव तावत् करुणा कृपा निर्विशेषम् अरि-
मित्रोदामौसीनसाधारणं यथा स्यात् तथा सर्व्वस्मिन् त्त्वमार्गे
अखिललोकवर्त्मनि[^३] प्रवृत्ता सत्तारणैकनिष्ठा । अतस्तन्मध्ये सत्त्व-
वर्त्माभ्यन्तरे तद्ग्रहेण तेषां सत्त्वानां संग्रहेण मादृशस्यापि ग्रहण-
मवश्यं नियमेनोपगतमायातम् । न केवलं सकलजगद्मादसाधारणैक-
करुणैव तव किन्तु सामर्थ्यं चाहिद्वितीयं[^४] शक्तिरप्येकैव[^५] अनन्य-
गामिनी । कीदृशम् ? सकलजगद्घध्वान्ततिग्मांशु[^६]विग्वंम्बं, सकलस्य
अखिलस्य जगतस्त्रिभवस्य यदघं कलुषं तदेव ध्वान्तं गाढ़ं[^७] तम-
स्तत्तिग्मांश्शुविम्बसङ्काशमिव । अतोऽनन्यसाधारणयोः करुणामाम-
साम-
र्थ्य
योर्विद्यमानयोरपि दःदुःख्येवाहं तथापौपीति न तवायम् अपराध:
-----------------------------------------------------------------------------------------
[^१] B. तीग्मांशु । [^२] B. दुःकृतं ।
[^३] Orig. लोक व्रत्मनि । [^४] Orig. चाद्वितीय ।
[^५] Orig. प्यैकैव । [^६] Orig. तीग्मांशु ।
[^७] Orig. वाढं ।