This page has been fully proofread once and needs a second look.

खग्धरास्तोत्र टीका ।
 
कृपामामर्थ्यारम्भाभावात् कथमनुकम्पयतीत्याशङ्याह

सर्वस्मिन् सत्त्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता

तन्मध्ये तद्ग्रहेण ग्रहणमुपगतं माहशस्याप्यवश्यम् ।

सामर्थ्य चाहितौयं सकलजगदघध्वान्ततिग्मांशु'[^१] विम्बं

दुःख्येवाहं तथापि प्रतपति धिगहो दुष्कृतं'[^२] दुर्विदग्धम् ॥
 
३॥
 

 
॥ ३ ॥ सर्व्वस्मिन्निति —
 

 
ननु हे भगवति तव तावत् करुणा कृपा निर्विशेषम् अरि-

मित्रोदामौनसाधारणं यथा स्यात् तथा सर्व्वस्मिन् मत्त्वमार्गे

अखिललोकवर्त्मनि[^३] प्रवृत्ता सत्तारणैकनिष्ठा । अतस्तन्मध्ये सत्त्व-

वर्माभ्यन्तरे तद्ग्रहेण तेषां सत्त्वानां संग्रहेण मादृशस्यापि ग्रहण-

मवश्यं नियमेनोपगतमायातम् । न केवलं सकलजगद्माधारणैक-

करुणैव तव किन्तु सामर्थ्य चाहितीयं[^४] शक्तिरप्येकैव[^५] अनन्य-

गामिनी । कीदृशम् ? सकलजगद्घध्वान्ततिग्मांश [^६]विग्वं, सकलस्य

अखिलस्य जगतस्त्रिभवस्य यदघं कलुषं तदेव ध्वान्तं गाढ़ तम-
ढ़ं[^७] तम-
स्तत्तिग्मांश्विम्बसङ्काशमिव । अतोऽनन्यसाधारणयोः करुणामाम-

योर्विद्यमानयोरपि दःख्येवाहं तथापौति न तवायम् अपराध:
 
·
 

-----------------------------------------------------------------------------------------
[^
] B. तौतीग्मांशु ।
[^२] B. दुःकृतं ।
[^
] Orig. लोक व्रत्मनि ।
[^४] Orig. प्यैव ।
 
चाद्वितीय ।
[^५]
Orig. वाढं ।
 
9
 
२ B. दुःकृतं ।
 
प्यैकैव । [^६] Orig. चाद्वितीय ।
ग्मांशु ।
[^७]
Orig. तौग्मांशु ।
 
वाढं ।