This page has not been fully proofread.

खग्धरास्तोत्र टीका ।
 
कृपामामर्थ्यारम्भाभावात् कथमनुकम्पयतीत्याशङ्याह
सर्वस्मिन् सत्त्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता
तन्मध्ये तद्ग्रहेण ग्रहणमुपगतं माहशस्याप्यवश्यम् ।
सामर्थ्य चाहितौयं सकलजगदघध्वान्ततिग्मांशु' विम्बं
दुःख्येवाहं तथापि प्रतपति धिगहो दुष्कृतं' दुर्विदग्धम् ॥
 
३॥
 
॥ ३ ॥ सर्व्वस्मिन्निति —
 
ननु हे भगवति तव तावत् करुणा कृपा निर्विशेषम् अरि-
मित्रोदामौनसाधारणं यथा स्यात् तथा सर्व्वस्मिन् मत्त्वमार्गे
अखिललोकवर्त्मनि प्रवृत्ता सत्तारणैकनिष्ठा । अतस्तन्मध्ये सत्त्व-
वर्माभ्यन्तरे तद्ग्रहेण तेषां सत्त्वानां संग्रहेण मादृशस्यापि ग्रहण-
मवश्यं नियमेनोपगतमायातम् । न केवलं सकलजगद्माधारणैक-
करुणैव तव किन्तु सामर्थ्य चाहितीयं शक्तिरप्येकैव अनन्य-
गामिनी । कीदृशम् ? सकलजगद्घध्वान्ततिग्मांश विग्वं, सकलस्य
अखिलस्य जगतस्त्रिभवस्य यदघं कलुषं तदेव ध्वान्तं गाढ़ तम-
स्तत्तिग्मांश्विम्बसङ्काशमिव । अतोऽनन्यसाधारणयोः करुणामाम-
योर्विद्यमानयोरपि दःख्येवाहं तथापौति न तवायम् अपराध:
 
·
 
१ B. तौग्मांशु ।
३ Orig. लोक व्रत्मनि ।
५ Orig. प्यैव ।
 
७ Orig. वाढं ।
 
9
 
२ B. दुःकृतं ।
 
४ Orig. चाद्वितीय ।
६ Orig. तौग्मांशु ।