This page has been fully proofread once and needs a second look.

संश्रयामि[^१]। किं विशिष्टाम् ? पापहन्त्रों पापानि दुरितानि
इन्ति स्फुटयतीति। किम्भूतः ? परगतिगमनः परेषां रागादि-
क्लेशानाम् अधौना या देवादिषङ्गतयस्तासु गमनं यस्य मोऽहम् ।
इत्यं गतोऽपि लोकाशानिबद्धः । कथम् ? श्रुत्वा भूयः परेभ्यो
ब्योन्नि चन्द्रार्कलक्ष्मीम'म्[^२], 'श्रहमप्येवंभूतोऽनेन कथमालोकयामीति
कृत्वा अथ आलोकाय निभायनाय आशा अभिलाषस्तन निबद्धो
नियतलग्नो यः स तथा । परेभ्यस्तगुणोद्वारिभ्यः श्रुत्वा भूयो वारं-
वारं समाकर्ण्य आकाशे चन्द्रार्कयोरिव लक्ष्म त्वगुणसम्पदम् ।
अन्धोऽपि किं न सुखौ स्यादित्याह दुर्लई दुःखवहौ विनि-
पतिततनुः, दुःखमेव अतिदु:महत्वाइहिः अनलः दुःखेन अतिकष्टेन
लङ्घयितुमतिक्रमितुं शक्यते इति दुर्लवस्तन विनिपतिता निमग्ना
तनुः शरीरं यस्य स तथा दुष्टो भगो ज्ञानं यस्य स दुर्भगो
दुर्बुद्धिर्भाग्यरहित इत्यर्थः किं किं कर्त्तुमिच्छामीति कां कां दिशं
गच्छामौति कृत्वा कान्दिशीको भयद्रुतः । पुनः कौदृशः? किं किं
मूढ़ः करोमौत्यसकृदपि कृतारम्भवैयर्थंखिन्नः, मूढः खकानभिज्ञः
सन् किं किं करोमौति किं किमाचरामौत्यनेनाकारणामकृदपि
मुहुरपि कृतो विहितो य प्रारम्भ उद्योगस्तस्य वैयर्थेन नैष्फल्येन
खिन्नः क्लिट: उद्दिन इत्यर्थः चतनयनेऽपि एतद्विशेषणं यथासम्भवं
योजनीयम् । इत्थं गतोऽपि अहं कथं नानुकम्प्य इति भावः ।


 
-----------------------------------------------------------------------------------------
[^
] Orig. संश्रयमामि ।
[^] Orig. चन्द्रार्कलक्षः ।