This page has been fully proofread once and needs a second look.

बौद्धस्तोत्रसंग्रहः ।
 
संश्रयामि'। किं विशिष्टाम् ? पापहन्त्रों पापानि दुरितानि

इन्ति स्फुटयतीति। किम्भूतः ? परगतिगमनः परेषां रागादि-

क्लेशानाम् अधौना या देवादिषङ्गतयस्तासु गमनं यस्य मोऽहम् ।

इत्यं गतोऽपि लोकाशानिबद्धः । कथम् ? श्रुत्वा भूयः परेभ्यो

ब्योन्नि चन्द्रार्कलक्ष्मीम', 'श्रहमप्येवंभूतोऽनेन कथमालोकयामीति

कृत्वा अथ आलोकाय निभायनाय आशा अभिलाषस्तन निबद्धो

नियतलग्नो यः स तथा । परेभ्यस्तगुणोद्वारिभ्यः श्रुत्वा भूयो वारं-

वारं समाकर्ण्य आकाशे चन्द्रार्कयोरिव लक्ष्म त्वगुणसम्पदम् ।

अन्धोऽपि किं न सुखौ स्यादित्याह दुर्लई दुःखवहौ विनि-

पतिततनुः, दुःखमेव अतिदु:महत्वाइहिः अनलः दुःखेन अतिकष्टेन

लङ्घयितुमतिक्रमितुं शक्यते इति दुर्लवस्तन विनिपतिता निमग्ना

तनुः शरीरं यस्य स तथा दुष्टो भगो ज्ञानं यस्य स दुर्भगो

दुर्बुद्धिर्भाग्यरहित इत्यर्थः किं किं कर्त्तुमिच्छामीति कां कां दिशं

गच्छामौति कृत्वा कान्दिशीको भयद्रुतः । पुनः कौदृशः? किं किं

मूढ़ः करोमौत्यसकृदपि कृतारम्भवैयर्थंखिन्नः, मूढः खकानभिज्ञः

सन् किं किं करोमौति किं किमाचरामौत्यनेनाकारणामकृदपि

मुहुरपि कृतो विहितो य प्रारम्भ उद्योगस्तस्य वैयर्थेन नैष्फल्येन

खिन्नः क्लिट: उद्दिन इत्यर्थः चतनयनेऽपि एतद्विशेषणं यथासम्भवं

योजनीयम् । इत्थं गतोऽपि अहं कथं नानुकम्प्य इति भावः ।
 

 

 

 
१ Orig. संश्रयमामि ।

२ Orig. चन्द्रार्कलक्षः ।