This page has been fully proofread once and needs a second look.

किंविशिष्टौ ? बालार्कालोकताम्रप्रवरसुर शिरश्चारुचूड़ामणिश्रीसम्प-
त्सम्पर्क रागानंति नतिचिरर चितालक्तकव्यक्तभक्ती, बालोऽभिनवोदितो
योऽर्कः सूर्य्यस्तस्यालो कोऽरुणावभासस्तद्वत्ताम्रा आराःरक्ताः प्रवराणां
सुराणामिन्द्रादिदेवानां शिरःसु मस्तकेषु ये चारवो[^१]ऽतिरुचिरा-
श्चूड़ामणयः शिखाविन्यस्तरत्नानि तेषां श्रौरीसम्पत् शोभासम्मृद्धि-
स्तस्याः सम्पर्कोंको मिलनं तेन यो रागो लौहित्यं तेन अनतिचिरम्
अत्यल्पकालं रचिता निर्मिता अलक्तकस्य यावकस्य व्यक्ता प्रति-
स्फुटा भक्तिः विचित्रयोजना ययोस्तौ । अनेन एतदुक्तं भवति
हे मातस्त्वमेव श्रापच्चरछरण्या[^२] तारिणी च तो मां ह्यापत्-
पतितमुद्धर्त्तु[^३]मर्हमीसीति कवेरभिप्रायः ।
 
कथमहमापत्पतित इत्याह--
 
दुर्लङ्गेघे दुःखवह्नौ विनिपतिततनुर्दुर्भगः कान्दिशौशीकः
किं किं मूढ़ःढः करोमौमीत्यसकृदपि कृतारम्भवैयर्थ्यखिन्नः ।
श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मौमीम्
आलोकाशानिबद्धः परगतिगमनस्त्वां श्रये पापन्त्रीम् ॥
 
॥ ९ ॥ दुर्लङ्गेघे[^४]त्यादि-
-
 
क्षतनयन इव
तनयन द्रव चचुक्षुर्विहीन इव हे मातस्त्वां भगवर्ती श्रये
--------------------------------------------------------------------------------------
[^१] Orig. चारवो अतिरुचिरा । [^२] Orig. आपच्छरण्ये ।
[^३] Orig. महस्मीति । [^४] Orig. दुर्लङ्घ्ये ।