2023-03-30 14:38:37 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
ऽन्विष्टाः सन्तस्तैर्नोपलब्धा:[^१] । तन्मूल्यसुवर्णं च यथास्वं राशीकृतं
सरस्तौरे परमालोकितम् । ततस्ते राजपुरुषा भयविस्मयाकुलित-
मनसो राजनि तद्विज्ञापयामासुः । तच्छ्रुत्वा स राजा विस्मया-
वर्ज्जितमनास्तस्यैवैकस्य विक्रीतस्य भिक्षोरयं प्रभाव इत्यभिधाय
सञ्जाताधिकतरप्रसादस्तमन्विष्यानीय तच्छिष्यतामुपगत इत्यादि
कथा प्रसिद्धैव नोक्ता ।
श्रीदेव्यै नमः ।
-----------------------------
॥ १ ॥ बालार्केत्यादि--
आर्य्ये तारिणि आपच्छरण्ये तव पादौ भक्त्या अभ्यर्च्चयामि
इति सम्बन्धः । आरात् पापकेभ्यः कर्मभ्य: दूरं गतेत्यार्य्या ।
चिभुवगताशेषदुःखार्णवाद् महाकरुणया सत्त्वांस्तारयतीति तारिणौ ।
किंभूता ? आपच्छरण्या, आपत्सु अष्टमहाभयादिसकलतीव्रविप-
त्तिषु शरणार्हत्वाद् आपच्छरण्या, तस्याः सम्बोधनं हे आर्य्य-
तारिणि आपच्छरण्ये, तव भवत्याः पादौ चरणौ अभ्यर्चयामि
कायवाङ्मनःप्रसादेन पूजयामि । अहं करपुटमुकुटाटोपभुग्नो[^२]-
त्तमाङ्गः सन्, करपुटं करद्वयबद्धाञ्जलिः स एव मुकुट इव मुकुट-
स्तस्याटोपो हर्षवेगस्तेन भुग्नं नवीभूतम् उत्तमाङ्गं शिरो यस्य
स तथा । काभिः ? नवनुतिकुसुमस्रग्भिः, नवाः सद्योऽभिनिर्म्मिता
या नुतयस्ता एव कुसुमानि पुष्पाणि तेषां स्रग्भिर्मालाभिः ।
-----------------------------------------------------------------------------------------
[^१] Orig. र्नो नोपलब्धाः । [^२] Orig. भग्न ।