This page has been fully proofread once and needs a second look.

ऽन्विष्टाः सन्तस्तैर्नोपलब्धा:[^१] । तन्मूल्यसुवर्णं च यथास्वं राशीकृतं
सरस्तौरे परमालोकितम् । ततस्ते राजपुरुषा भयविस्मयाकुलित-
मनसो राजनि तद्विज्ञापयामासुः । तच्छ्रुत्वा स राजा विस्मया-
वर्ज्जितमनास्तस्यैवैकस्य विक्रीतस्य भिक्षोरयं प्रभाव इत्यभिधाय
सञ्जाताधिकतरप्रसादस्तमन्विष्यानीय तच्छिष्यतामुपगत इत्यादि
कथा प्रसिद्धैव नोक्ता ।
 
श्रीदेव्यै नमः ।
-----------------------------
 
॥ १ ॥ बालार्केत्यादि-
-
 
आर्य्ये
तारिणि आपच्रण्ये तव पादौ भक्त्या अभ्यर्च्चयामि
इति सम्बन्धः । आरात् पापकेभ्यः कर्मभ्य: दूरं गतेत्यार्य्या
चिभुवगताशेषदुःखार्णवाद् महाकरुणया त्त्वांस्तारयतौतीति तारिणौ ।
किंभूता ? प्रापच्रण्या, आपत्सु अष्टमहाभयादिकलतीव्र विप-
त्तिषु शरणाईलार्हत्वाद् आपच्छरण्या, तस्याः सम्बोधनं हे श्राआर्य्य-
तारिणि आपच्छरण्ये, तव भवत्याः पादौ चरणौ अभ्यर्चयामि
कायवाङ्मनःप्रसादेन पूजयामि । अहं करपुटमुकुटाटोपभुग्नो[^२]-
त्तमाङ्गः न्, करपुटं करद्वयबद्धाञ्जलिः स एव मुकुट इव मुकुट-
स्तस्थायाटोपो हर्षवेगस्तेन भुग्नं नवौवीभूतम् उत्तमाङ्गं शिरो यस्य
स तथा । काभिः ? नवनुतिकुसुमस्रग्भिः, नवाः सद्योऽभिनिर्म्मिता
या नुतयस्ता एव कुसुमानि पुष्पाणि तेषां स्रग्भिर्मालाभिः ।
-----------------------------------------------------------------------------------------
[^१] Orig. र्नो नोपलब्धाः । [^२] Orig. भग्न ।