This page has been fully proofread once and needs a second look.

ऽन्विष्टाः सन्तस्तैर्नोपलब्धा:[^१] । तन्मूल्यसुवर्णं च यथास्वं राशीकृतं
सरस्तौरे परमालोकितम् । ततस्ते राजपुरुषा भयविस्मयाकुलित-
मनसो राजनि तद्विज्ञापयामासुः । तच्छ्रुत्वा स राजा विस्मया-
वर्ज्जितमनास्तस्यैवैकस्य विक्रीतस्य भिक्षोरयं प्रभाव इत्यभिधाय
सञ्जाताधिकतरप्रसादस्तमन्विष्यानीय तच्छिष्यतामुपगत इत्यादि
कथा प्रसिद्धैव नोक्ता ।
 
श्रीदेव्यै नमः ।
-----------------------------
 
॥ १ ॥ बालार्केत्यादि-
तारिणि आपच्चरण्ये तव पादौ भक्त्या अभ्यर्च्चयामि
इति सम्बन्धः । आरात् पापकेभ्यः कर्मभ्य: दूरं गतेत्या ।
चिभुवगताशेषदुःखार्णवाद् महाकरुणया मत्त्वांस्तारयतौति तारिणौ ।
किंभूता ? प्रापच्चरण्या, आपत्सु अष्टमहाभयादिमकलतीव्र विप
त्तिषु शरणाईलाद् आपच्छरया, तस्याः सम्बोधनं हे श्रा-
तारिणि आपच्छरण्ये, तव भवत्याः पादौ चरणौ अभ्यर्चयामि
कायवामनःप्रसादेन पूजयामि । अहं करपुटमुकुटाटोपभुग्नो[^२]-
त्तमाङ्गः मन्, करपुटं करद्वयबद्धाञ्जलिः स एव मुकुट इव मुकुट-
स्तस्थाटोपो हर्षवेगस्तेन भुग्नं नवौभूतम् उत्तमाङ्ग शिरो यस्य
स तथा । काभिः ? नवनुतिकुसुमस्रगभिः, नवाः सद्योऽभिनिर्मिता
या नुतयस्ता एव कुसुमानि पुष्पाणि तेषां स्रग्भिर्मालाभिः ।
-----------------------------------------------------------------------------------------
[^१] Orig. र्नो नोपलब्धाः । [^२] Orig. भग्न ।