This page has been fully proofread once and needs a second look.

बौद्धस्तोत्रसंग्रहः ।
 
ऽन्विष्टाः सन्तस्तैनेपिलब्धा: । तन्मूल्यसुवर्णं च यथावं राशौद्धतं

सरस्तौरे परमालोकितम् । ततस्ते राजपुरुषा भयविस्मयाकुलित-

मनसो राजनि तद्विज्ञापयामासुः । तच्छ्रुत्वा स राजा विस्मया-

वर्ज्जितमनास्तस्यैवै कस्य विक्रौतस्य भिचोरयं प्रभाव इत्यभिधाय

सञ्चाताधिकतरप्रसादस्त मन्विव्यांनीय तच्चियतामुपगत इत्यादि

कथा प्रसिद्धैव नोक्ता ।
 

 
श्रीदेव्यै नमः ।
 

 
8.
 

 
॥ १ ॥ बालार्केत्यादि-

तारिणि आपच्चरण्ये तव पादौ भक्त्या अभ्यर्च्चयामि

इति सम्बन्धः । आरात् पापकेभ्यः कर्मभ्य: दूरं गतेत्या ।

चिभुवगताशेषदुःखार्णवाद् महाकरुणया मत्त्वांस्तारयतौति तारिणौ ।

किंभूता ? प्रापच्चरण्या, आपत्सु अष्टमहाभयादिमकलतीव्र विप

त्तिषु शरणाईलाद् आपच्छरया, तस्याः सम्बोधनं हे श्रा-

तारिणि आपच्छरण्ये, तव भवत्याः पादौ चरणौ अभ्यर्चयामि

कायवामनःप्रसादेन पूजयामि । अहं करपुटमुकुटाटोपभुग्नो

त्तमाङ्गः मन्, करपुटं करद्वयबद्धाञ्जलिः स एव मुकुट इव मुकुट-

स्तस्थाटोपो हर्षवेगस्तेन भुग्नं नवौभूतम् उत्तमाङ्ग शिरो यस्य

स तथा । काभिः ? नवनुतिकुसुमस्रगभिः, नवाः सद्योऽभिनिर्मिता

या नुतयस्ता एव कुसुमानि पुष्पाणि तेषां स्रग्भिर्मालाभिः ।

-----------------------------------------------------------------------------------------
[^१]
Orig. भम ।
 
र्नो नोपलब्धाः । [^२] Orig. नौ नोपलब्धाः ।
 
भग्न ।