This page has been fully proofread once and needs a second look.

दाय वज्रमुकुटम्य नृपतेरन्तिकं सुवर्णेन समौमीकृत्य स्वशरीरं विक्री
तन्मूल्यं तस्मै प्रदायानुनौनीय प्रस्थाप्य राज्ञः पुरतोऽवस्थितः । तस्मिंश्च
समये तस्य राज्ञो यथोक्तविचित्रलक्षणोपेत पुरुषैकशतकर्त्तित-
मस्तकोपरिवास्नानादभिमतं त्सेत्स्यतीत्युपदिष्टं केनापि । तदाक्यं महता
कालेन यत्नतोऽन्तिव्विष्य सुवर्णसमतुलमेकोनशतं पुरुषाणां क्रौतमास्ते
अनेनैकेन शतं परिपूर्णमतः कर्त्तितमस्तकोपरि स्नानं करिष्या-
मौमीत्यभिधाय एनं तन्मध्यं नय इत्यादिशति स्म । तदादिष्टभृत्येन
तथैव सम्पादितम् । पश्चात्तमेकमवलोक्य सर्व्व एव ते वध्यपुरुषाः
प्रातर्हता वयमिति उच्चैराक्रन्दन्तः साचाक्षान्मृत्युरयमुपस्थितो मुण्ड
इत्यारटन्तो[^१] बोधित्त्वेनाभिहिताः कस्मादेवमधीरता पूर्व्वमेवं
जाज्ञात्वैव किमात्मा विक्रीत इति । तत एतानतिकातरान् समाश्वास्य
महाकरुणार्द्रया दृशा चावलोक्य मातरं विहाय नास्ति कश्चि-
देषामन्यो निस्तारोपाय इति निश्चित्य संयतीभूय सर्व्वज्ञमित्रो
भगवतीमार्य्यतारां स्तोतुमारब्धवान् । तत्र श्लोककतिपयानन्तरं
भगवती स्वयमागत्य यथाकर्त्तव्यमादिग्श्यानुचिन्तिता चाधितिष्ठ-
न्त्यन्तर्हिता । ततः स लब्धवरः सर्व्वज्ञमित्रः युभाभिः सर्वैः प्रात-
युगपदेव स्नातव्यमित्यादिष्टवान् । प्रातरागत्य राजपुरुषैस्ते वध्याः[^२]
सरस्तौरे नौताः सन्तस्तान भितिवन्तः । सर्वैरस्माभिरेकदैव
स्नातव्यं किं बहुविलम्वेन इत्युक्ला सरषि निमग्ना भगवतीप्रभा-
वात् स्वं स्वं देशमुपजग्मुः । पञ्चान्मुहर्त्तदितयानन्तरं यत्नतो-
-----------------------------------------------------------------------------------------
[^१] Orig. आरटतो । [^२] Orig. वध्यः सरस्तीरे