This page has been fully proofread once and needs a second look.

खग्धरास्तोत्र टीका ।
 
दाय वज्रमुकुटम्य नृपतेरन्तिकं सुवर्णेन समौकृत्य स्वशरीर विक्री

तन्मूल्यं तस्मै प्रदायानुनौय प्रस्थाप्य राज्ञः पुरतोऽवस्थितः । तस्मिंश्च

समये तस्य राज्ञो यथोक्तविचित्रलक्षणोपेत पुरुषैकशतकर्त्तित-

मस्तकोपरिवानादभिमतं त्यतीत्युपदिष्टं केनापि । तदाक्यं महता

कालेन यत्नतोऽन्तिव्य सुवर्णसमतुलमेकोनशतं पुरुषाणां क्रौतमास्ते

अनेनैकेन शतं परिपूर्णमतः कर्त्तितमस्तकोपरि स्नानं करिष्या-

मौत्यभिधाय एनं तन्मध्यं नय इत्यादिशति स्म । तदादिष्टभृत्येन

तथैव सम्पादितम् । पश्चात्तमेकमवलोक्य सर्व्व एव ते वध्यपुरुषाः

प्रातर्हता वयमिति उच्चैराक्रन्दन्तः साचान्मृत्युरयमुपस्थितो मुण्ड

इत्यारटन्तो[^१] बोधिमत्त्वेनाभिहिताः कस्मादेवमधीरता पूर्व्वमेवं

जात्वैव किमात्मा विक्रीत इति । तत एतानतिकातरान् समाश्वास्य

महाकरुणाईया दृशा चावलोक्य मातरं विहाय नास्ति कश्चि-

देषामन्यो निस्तारोपाय इति निश्चित्य संयतीभूय म सर्व्वजमित्रो

भगवतीमार्य्यतारां स्तोतुमारब्धवान् । तत्र श्लोककतिपयानन्तरं

भगवती स्वयमागत्य यथाकर्त्तव्यमादिग्यानुचिन्तिता चाधितिष्ठ-

न्त्यन्तर्हिता । ततः स लब्धवरः सर्व्वजमित्रः युभाभिः सर्वैः प्रात-

युगपदेव स्नातव्यमित्यादिष्टवान् । प्रातरागत्य राजपुरुषैस्ते वध्याः
[^२]
सरस्तौरे नौताः सन्तस्तान भितिवन्तः । सर्वैरस्माभिरेकदैव

स्नातव्यं किं बहुविलम्वेन इत्युक्ला सरषि निमग्ना भगवतीप्रभा-

वात् स्वं स्वं देशमुपजग्मुः । पञ्चान्मुहर्त्तदितयानन्तरं यत्नतो-

-----------------------------------------------------------------------------------------
[^
] Orig. आरटतो ।
 

 
[^] Orig. वध्यः सरस्तीरे