This page has been fully proofread once and needs a second look.

प्रभूतविद्वेषहुताशनान्त:-
स्फुरच्छिखादग्धमुखेन हन्त ।
खलु त्वया मत्सुखदा ममेयं
टीका न दूष्या त्वयि मेऽञ्जलिः सा[^१] ॥२॥
 
तत्र कृतौ[^२] उपोद्घातम् आदौ प्रस्तूयते । इह काश्मीरविषये
बोधिसत्त्वदेशौयो मुनीन्द्रप्रवचन[^३]कृपापारावारीणसान्द्रो[^४] महा-
करुणाप्रगुणीकृतहृदयात्मा सर्व्वज्ञमित्रो नाम भिक्षुरभवत् । स
चिन्तामणिरिवार्थिनां यथाभिलषितार्थसंपादनाद्दातृत्वेन जगति
विख्यातः स्वयमेव स्वमर्थजातमर्थिभ्यो विसृज्य चीवरपात्रविभवो
देशान्तरं व्रजन् वज्रमुकुटस्य राजो विषयमगमत् । तत्र जरा-
जर्जरीकृतं परित्यक्तपरिजनं द्विजमेकम् अध्वन्यपश्यत् । स कथा-
प्रसङ्गेन एवंविधवार्द्धकेऽपि क्व गन्तव्यं त्वयेति कृपयाकृष्टः सन्नाह--
[^५]स्वसुतापरिणयनार्थमर्थमभ्यर्थयितुम् अपि च सर्व्वज्ञमित्रस्य भिक्षो-
रन्तिकम् । अयं स्वविभवजातमर्थिम्यो विभज्य स भिक्षुर्देशा-
न्तरं[^६] गत इति किं न श्रुतम् ? इत्युक्तो वार्द्धकमुनिः सुचिर-
मभिनिःश्वस्य निश्चेष्ट इव मुहूर्त्तमवातिष्ठत । ततस्तमेवंविधं
सकरुणमनुशोचन्तमेव सर्व्वज्ञमित्र इति समाश्वासयन्नवाच । मैव-
मधीरो भव अहं ते सर्व्वमभिमतं सम्पादयिष्यामीत्युक्त्वा तमा-
-----------------------------------------------------------------------------------------
[^१] Orig. चैषे । [^२] Orig. वुतौ ।
[^३] Orig. प्रवचना । [^४] Orig. पान्द्रो ।
[^५] Orig. ससुता । [^६] Orig. भिक्षुर्जोर्देशान्तरं ।