This page has been fully proofread once and needs a second look.


 
बौद्धस्तोत्रसंग्रहः ।
 
प्रभूतविद्वेषहुताशनान्त:-

स्फुरच्छिखादग्धमुखेन हन्त ।
 

खलु त्वया मत्सुखदा ममेयं
टौ

टी
का न दूव्ष्या त्वचियि मेऽञ्जलिः सा [^] ॥२॥
 

 
तत्र कृतौ उपोद्दातम् श्रादौ प्रख्यते । इह काश्मीर विषये

बोधिसत्त्वदेशौयो मुनीन्द्र प्रवचन कृपापारावारौणसान्द्रो महा-

करुणामणीकृत हृदयात्मा सर्व्वज्ञमित्रो नाम भिक्षुरभवत् । स

चिन्तामणिरिवार्थिनां चथाभिलषितार्थसंपादनाद्दाढत्वेन जगति

विख्यातः स्वयमेव खमर्थजातमर्थिभ्यो विसृज्य चौवरपात्रविभवो

देशान्तरं व्रजन् वज्रमुकुटस्य राजो विषयमगमत् । तत्र जरा-

जर्जरीकृतं परित्यक्तपरिजनं द्विजमेकम् अध्वन्यपश्यत् । स कथा-

प्रसङ्गेन एवंविधवार्द्धकेऽपि क्क गन्तव्यं त्वयेति कृपयालष्टः सन्नाह

स्वसुतापरिणयनार्थंमर्थमम्यर्थयितुम् अपि च सर्व्वजमित्रस्य भिक्षो-

रन्तिकम् । त्र्यं स्वविभवजातमर्थिम्यो विभज्य स भिक्षुर्देशा-

न्तरं गत इति किं न श्रुतम् ? इत्युको वार्द्धकमुनिः सुचिर-

मभिनिःश्वस्य निश्चेष्ट इव मुहर्त्तमवातिष्ठत । ततस्तमेवंविधं

मकरुणमनुशोचन्तमेव सर्व्वज्ञमित्र इति समाश्वासयन्नवाच । मैव-

मधौरो भव अहं ते सर्व्वमभिमतं सम्पादयिष्यामौत्युक्त्वा तमा-

९ Orig. J

३ Orig. प्रवचना ।
 

 
५ Orig. ससुता ।
 

 
२ Orig. बुतौ ।

8 Orig. पान्द्रो ।
 

 
६ Orig. भिक्षुर्जोर्देशान्तरं ।