This page has not been fully proofread.

११२
 
॥ मलयमारुतः ॥
 

 
ज्ञातुर्दातुर्दयालोः सकलकलकुलालंकृतेर्मुद्गलाद् यः

प्राभूज्झापाम्बिकायां सुललितयमलग्रामघामा स सोमः ।

वैराग्यं प्राप्तुकामः स्वमृदुमतिलताजातया जाड्यचुचुः
 

 
पञ्चाशत्पद्यपुष्पा (ष्प्या) 'द्विरकृत गिरिजाजानिपादाब्जपूजाम् ॥ ११० ॥
 

 
रमेनामादी मुरारे रणकृदमिततां सङ्गतो युक्तरामो

भीरेप्रीतीभ (?) श्मेयामितिविभवकरोऽतीव सौख्य प्रपन्नः ।

४भीमोरुर्मारमारो बहुमुख(ध) रताविश्रुतो दामिताहिः
 

शंभुर्भाग्याय भूयाद् हरिरिव भजतामत्र सोमस्य पद्ये ॥ १११ ॥
 

 
इति श्रीसकलकलोपनामककविवर सोमनाथविरचितं
 

शतकं समाप्तम् ॥
 

 
[^
.] द्वि: अकृत । पद्यशतकेनेत्यर्थः ।
 

 
[^
.] अस्मिन्नन्त्ये पद्ये शम्भुहर्योस्समानि विशेषणानि । मेना श्वभू: तया
ति पुत्रीतोरिति शिवपक्षे । माया: लक्ष्म्या इनः पतिः, स चासौ अमादी
मदरहितश्चेति विष्णुपक्षे । मुरारें रणकृद् विष्ण्वादिदेवकार्यार्थे त्रिपुराचसुरै रणकृत् इति
शिवपक्षे । मुररूपस्य अरे: रणकृदिति विष्णुपक्षे । युक्तराम: बलरामसहित:; शिवपक्षे
युक्ता रामा अर्धाङ्गे पत्नी यस्य सः ।
 
[^
.] अशुद्धा मातृका ।
 
[^
.] भीमश्वासावुरुश्च ।

 
[^५]
भारमारः मन्मथमन्मथ: सौन्दर्ये; इदं कृष्णपक्षे । अन्यन्त्र मारस्य मारकः । एकस्य
सहस्रशीर्षप्रसिद्धया, अन्यस्य पञ्चवक्त्रत्वाच्चोभयत्र बहुमुखधरताप्रसिद्धिः समाना ।
दामित: शामित: अहि: कालिय: येन । अन्यत्र दामित: मालीकृत: अहि: येन ।
भजतां भाग्याय भूयात् ।