This page has been fully proofread once and needs a second look.

॥ मलयमारुतः ॥
 
एवं संबोधनीयाष्टसहितशतया[^१] नामपङ्क्तचाच्छकाया
दुर्वारस्फारमायाश्रमहरणधिया [^२]व्यक्तिरेषाऽनपाया ॥ १०३ ॥
 
[^३]गोपोदारप्रचारे ललिततरतनौ प्राप्तभामे कदाचित्
भिन्दाने नागदेहं विषमविषसखे भूतिपात्रेऽतिमात्रम् ।
अब्जेन भ्राजमाने सततधृतशिवे चित्तजन्मान्तहेतौ
चेतः सर्वे विमुच्यानुरज समतया त्वं मुरारौ पुरौवा (पुरारौ ) ॥१०४ ॥
 
क्षीराब्ध्यम्भोविहारप्रिय निगमचर प्रस्फुरच्छङ्खमार[^४]
श्रीकूर्मागाधसार स्थिरघरणिधर स्वाश्रयाकृत्युदार[^५] ।
[^६]पोत्रिन् दंष्ट्राकरालोद्धृतधर सबलोद्वेलसिन्धो दयालो
[^७]पुंसिंह प्रेष्ठबालोत्कटसट घवलोद्भिन्नदैत्याशयालो ॥ १०५ ॥
 
[^८]बल्यर्थिन् छद्मभारिन् द्विज पदजसरिन्नाकिपोच्चत्वधारिन्
[^९]वीर क्षत्रान्तकारिन् भृगुसुत समरिन् मातृभेदिन् कुठारिन् ।
 
[^१] अष्टसहितशतया अष्टोत्तरशतसंख्यया ।
 
[^२] व्यक्तिरेषा, शिवस्येति शेषः ।
 
[^३] अत्रत्यानि पदानि श्लेषेण मुरारिपुरार्युभयपराणि । गोपो गवांपतिर्वृषभः, तेन यानभूतेन उदारप्रचार इति पुरारिपरमिदम् । मुरारिपक्षे गोपा व्रजवासिनः । प्राप्तो भामः कोपः येनेति रुद्रपक्षे ; कृष्णपक्षे प्राप्तसत्यभाम इति । नागदेहं मिन्दान इति उभयत्र हस्तिनाशकत्वं समम् । विषसखत्वं नीलकण्ठे तत्पायित्वात् । विषमविषे आदिशेषे इति शेषशायिनि, तत्सखत्वम् । भूतिर्भस्म, समृद्धिश्च । अब्जः सोमः, अब्जं कौस्तुभाख्यमपां रत्नम् । सततं धृता शिवा अङ्गे येनेति अर्धनारीश्वरपक्षे । विष्णो: शिरसि शिवलिङ्गधारणं पाण्डुरङ्गक्षेत्रे प्रसिद्धम् । चित्तजन्मन: अन्तहेतुरिति
मदनान्तकपक्षे; चित्तस्य जन्मनश्च अन्तहेतुरिति मोक्षदायिनि विष्णौ । अनुरज इत्यत्र भ्वादिर्घातुः ।
 
[^४] शङ्खासुरमारक ।
 
[^५] स्वाश्रय स्वप्रतिष्ठ। आकृत्युदार इतिच्छेदः ।
 
[^६] वराह। उद्धृता धरा येन । तुतीयपादे सर्व वराहावतारविशेषणतया नेयम् ।
 
[^७] अस्मिन् पादे सर्व नृसिंहावतारपरतया ग्राह्यम् । प्रेष्ठबालेत्यत्र बाल: प्रह्लादः । मित्रं दैत्यस्य हिरण्यकशिपोराशय एवालु हृदयमेव कन्दं येन ।
 
[^८] वामनत्रिविक्रमावतारपराण्यत्र सम्बोधनानि । नाकिप देवनायक। उच्चत्वधारिन् त्रिविक्रम ।
 
[^९] सर्वमत्र परशुरामपरम् ।