This page has not been fully proofread.

॥ सोमनाथशतकम् ॥
 
१ आत्मारामाविकारेश्वर जननहरेशान्त (त्त) लीलावतारे-
शाण (न) प्रौढाङ्गहारेडित दयितगिरेऽर्धाङ्गदारान्धकारे ॥ १०० ॥
 
विश्वादे विष्णुबाण र त्रिगुण गतगुण३ श्रीदमित्र प्रमाण-
व्यापिन् 'नन्दिप्रयाण क्षितिरथ शरण त्र्यक्ष गायत्पुराण ।
मल्लारेऽन्यानधीन हिणकहृतिकृत्स्थूलविश्वात्मलीन
श्रीकण्ठाद्यन्तहीन प्रणवसुवदन श्रेष्ठ दीनप्ररेक ॥ १०१ ॥
 
सर्वज्ञ ख्यातदानोच्चपद मृदुमनो भैरवाध्यस्तसानो
भाख हस्तात्तजानो भव धवलतनो शङ्कराक्षीन्दुभानो ।
ज्ञानाब्धे हृद्यगीते वरद गणपते विश्वनाथास्तभीते
भूतेशालोकरीते मुनिमत सुगते रुद्र नागोपवीते ॥ १०२ ॥
 
6
 
नीलारक्ताभिरेतोऽजगवभृदजितोदारलीलोक्षकेतो
गुर्वात्मन् धर्मसेतो पशुप चितिरतोपात्तसोमात्महेतो ।
 
१.०९.
 
१. अविकार; ईश्वर; जननहर; ईश; आत्तलीलावतार; ईशान; प्रौढ :
अङ्गहारः तदाख्यं नृत्तकर्म यस्य सः ; ईडित; गिरिप्रिय; अर्धाङ्गकृतदार ।
 
२. त्रिपुरवधसमये सायकीकृतविष्णो; ३. गुणत्रयमय; निर्गुण; ४ कुबेरसख ।
५. प्रमाणभूत; अथवा प्रमाणव्यापिन् आगमादिप्रमाणानि व्याप्य तिष्ठन् । ५. नन्दि-
वाहन । क्षिति: त्रिपुरवधसमये रथो यस्य । गायन्ति पुराणानि यस्य सः ; पुराण-
स्तूयमानमहिमन्नित्यर्थ: । ६. द्रुहिणस्य ब्रह्मणः कं शिरः अस्य हृतिकृत् अपहारक।
७. दीनवदान्य; प्ररेक: दानशीलवाचको वैदिकः शब्दः ।
 
८. अध्यस्तसानो कैलाससानुवासिन् । हस्तात्तजानो इति आसनविशेषं
निर्दिशति । हृद्यगीते इति शिक्ख गानागममूलत्वं सूचितम् । अलोकरीते
लोकातीतस्वभाव । नागयज्ञोपवीतधारिन् ।
 
९. नीलारक्त नीललोहित; अग्निरेत: ; अजगवं शिवधनुः, तद्विभर्तीति;
उक्षकेतो वृषध्वज; पशुप पशुपते ; चितिरिति श्मशानमुपलक्षयति, तन्त्र रत;
उपात्तसोम; आत्महेतो स्वयंभो ।