सोमनाथशतकम् /38
This page has been fully proofread twice.
॥ सोमनाथशतकम् ॥
[^१]आत्मारामाविकारेश्वर जननहरेशान्त(त्त)लीलावतारे-
शाण(न) प्रौढाङ्गहारेडित दयितगिरेऽर्धाङ्गदारान्धकारे ॥ १०० ॥
विश्वादे विष्णुबाण[^२] त्रिगुण गतगुण[^३] श्रीदमित्र[^४] प्रमाण-
व्यापिन् [^५]नन्दिप्रयाण क्षितिरथ शरण त्र्यक्ष गायत्पुराण ।
मल्लारेऽन्यानधीन [^६]द्रुहिणकहृतिकृत्स्थूलविश्वात्मलीन
श्रीकण्ठाद्यन्तहीन प्रणवसुवदन प्रेष्टठ दीनप्ररेक[^७] ॥ १०१ ॥
सर्वज्ञ ख्यातदानोच्चपद मृदुमनो भैरवाध्यस्तसानो[^८]
भाखन्हस्तत्तजानो भव धवलतनो शङ्कराक्षीन्दुभानो ।
ज्ञानाब्धे हृद्यगीते वरद गणपते विश्वनाथास्तभीते
भूतेशालोकरीते मुनिमत सुगते रुद्र नागोपवीते ॥ १०२ ॥
[^९]नीलारक्ताग्निरेतोऽजगवभृदजितोदारलीलोक्षकेतो
गुर्वात्मन् धर्मसेतो पशुप चितिरतोपात्तसोमात्महेतो ।
[^१] अविकार; ईश्वर; जननहर; ईश; आत्तलीलावतार; ईशान; प्रौढ: अङ्गहारः तदाख्यं नृत्तकर्म यस्य सः ; ईडित; गिरिप्रिय; अर्धाङ्गकृतदार ।
[^२] त्रिपुरवधसमये सायकीकृतविष्णो;
[^३] गुणत्रयमय; निर्गुण;
[^४] कुबेरसख ।
[^५] प्रमाणभूत; अथवा प्रमाणव्यापिन् आगमादिप्रमाणानि व्याप्य तिष्ठन् । ५. नन्दिवाहन । क्षिति: त्रिपुरवधसमये रथो यस्य । गायन्ति पुराणानि यस्य सः ; पुराणस्तूयमानमहिमन्नित्यर्थ: ।
[^६] द्रुहिणस्य ब्रह्मणः कं शिरः तस्य हृतिकृत् अपहारक।
[^७] दीनवदान्य; प्ररेक: दानशीलवाचको वैदिकः शब्दः ।
[^८] अध्यस्तसानो कैलाससानुवासिन् । हस्तात्तजानो इति आसनविशेषं निर्दिशति । हृद्यगीते इति शिक्ख गानागममूलत्वं सूचितम् । अलोकरीते लोकातीतस्वभाव । नागयज्ञोपवीतधारिन् ।
[^९] नीलारक्त नीललोहित; अग्निरेत: ; अजगवं शिवधनुः, तद्विभर्तीति; उक्षकेतो वृषध्वज; पशुप पशुपते ; चितिरिति श्मशानमुपलक्षयति, तन्त्र रत; उपात्तसोम; आत्महेतो स्वयंभो ।
[^१]आत्मारामाविकारेश्वर जननहरेशान्त(त्त)लीलावतारे-
शाण(न) प्रौढाङ्गहारेडित दयितगिरेऽर्धाङ्गदारान्धकारे ॥ १०० ॥
विश्वादे विष्णुबाण[^२] त्रिगुण गतगुण[^३] श्रीदमित्र[^४] प्रमाण-
व्यापिन् [^५]नन्दिप्रयाण क्षितिरथ शरण त्र्यक्ष गायत्पुराण ।
मल्लारेऽन्यानधीन [^६]द्रुहिणकहृतिकृत्स्थूलविश्वात्मलीन
श्रीकण्ठाद्यन्तहीन प्रणवसुवदन प्रेष्