This page has not been fully proofread.

१०८
 
॥ मलयमारुतः ॥
 
मृत्योः शास्ता समस्तार्थिजनसुरतरूस्तारभा: (क्) तारकारे : १
 
स्तावन्ते (वान्ते)२मे पुरस्ताच्छिवपुरि वसतस्तारकाख्यातये स्तात् ॥ ९७ ॥
 
लोभात्त्वां वासयित्वा स्ववदनसदने ३गीर्मयापा (या) सितासि
त्वं नित्यं ४ चित्तबन्धोचितविविधगुणान् गुम्फयित्वा भवत्या ।
नृभ्यो विक्रेतुमिष्टान् कदुदरभृतये लन ( ? ) ६ तन्मे शयाना
जिह्वामञ्चे विमुञ्च श्रममसममुमाखा मिनामोपधाना७ ॥ ९८ ॥
गौरीकान्तार्थिपालिन् भव गर (ल)गरलिन् भर्ग हेरम्बबालिन्
शंभो भालाभिशालिन् मृड मृतिकबलिन् कृत्तिवासः कपालिन् ।
शूलिन् घोसिन्धुधारिन् गिरिश हतकरिन् उम्र सर्गापहारिन्
भीम प्रेतानुसारिन् शिव वसतिहरिन् मारजितिभारिन् ॥ ९९ ॥
 
९ शर्व प्रोद्यत्कुमार प्रहतमख हर व्योमकेशाहिहार
 
स्थाणो वेदान्तसार त्रिपुरजिंदपर श्रीकपर्दिन्नपार ।
 
१. तारकारे: स्वपुत्रात् स्कन्दात् तारभाक् प्रणवार्थोपदेशभाक् । २ स्तावान्ते
अस्य स्तोत्रस्य अवसाने तारकाख्यातये तारकमन्त्रोपदेशाय । काश्तामन्त्यकाले
सर्वस्यापि जन्तोः कर्णे शिवस्तारकमन्त्रमुपदिशतीप्र प्रसिद्धिः ।
 
३. हे गी: वाणि ! ४. चित्तबन्धोचितान् नरस्तुतिरूपान् नृभ्यो विक्रेतुमिष्टान्
विविधगुणान् भवत्या गुम्फयित्वा । ५. कदुदरभृतये कुत्सितजठरपोषणाय ।
६. अत्राशुद्धा मातृका । ७. उमानाथनामैव उपधानं कृत्वा जिह्वामञ्चे शयाना असमं
श्रमं विमुञ्च ।
 
अत आरभ्य पञ्च श्लोकाः शिवसम्बोधनपराः, यत्र अष्टोत्तरशतं शिव-
नामानि दत्तानि । अर्थिपालक । हेरम्बरूपो बालो यस्य । मृतिकबलिन् अन्तकान्तक ।
इतकरिन् गजान्तक । सर्गापहारिन् संहारमूर्ते। वसतिः वास: हरितः दिश एव यस्य ।
अथवा 'वसनहरित्' इति पाठः, दिगम्बर इत्यर्थ: ।
 
९. अत्रापि तथैव । प्रोद्यत्कुमार कुमारजनक । प्रहतमख मखध्वंसिन् । अपर
पररहित ।