सोमनाथशतकम् /37
This page has been fully proofread twice.
॥ मलयमारुतः ॥
मृत्योः शास्ता समस्तार्थिजनसुरतरूस्तारभा:(क्) तारकारे:[^१]
स्तावन्ते (वान्ते)[^२]मे पुरस्ताच्छिवपुरि वसतस्तारकाख्यातये स्तात् ॥ ९७ ॥
लोभात्त्वां वासयित्वा स्ववदनसदने [^३]गीर्मयापा(या)सितासि
त्वं नित्यं [^४]चित्तबन्धोचितविविधगुणान् गुम्फयित्वा भवत्या ।
नृभ्यो विक्रेतुमिष्टान् [^५]कदुदरभृतये प्लान(?)[^६] तन्मे शयाना
जिह्वामञ्चे विमुञ्च श्रममसममुमाखामिनामोपधाना[^७] ॥ ९८ ॥
[^८]गौरीकान्तार्थिपालिन् भव गर(ल)गरलिन् भर्ग हेरम्बबालिन्
शंभो भालाग्निशालिन् मृड मृतिकबलिन् कृत्तिवासः कपालिन् ।
शूलिन् घोसिन्धुधारिन् गिरिश हतकरिन् उम्र सर्गापहारिन्
भीम प्रेतानुसारिन् शिव वसतिहरिन् मारजिद्भूतिभारिन् ॥ ९९ ॥
[^९]शर्व प्रोद्यत्कुमार प्रहतमख हर व्योमकेशाहिहार
स्थाणो वेदान्तसार त्रिपुरजिंदपर श्रीकपर्दिन्नपार ।
[^१] तारकारे: स्वपुत्रात् स्कन्दात् तारभाक् प्रणवार्थोपदेशभाक् ।
[^२] स्तावान्ते अस्य स्तोत्रस्य अवसाने तारकाख्यातये तारकमन्त्रोपदेशाय । काश्तामन्त्यकाले सर्वस्यापि जन्तोः कर्णे शिवस्तारकमन्त्रमुपदिशतीप्र प्रसिद्धिः ।
[^३] हे गी: वाणि !
[^४] चित्तबन्धोचितान् नरस्तुतिरूपान् नृभ्यो विक्रेतुमिष्टान् विविधगुणान् भवत्या गुम्फयित्वा ।
[^५] कदुदरभृतये कुत्सितजठरपोषणाय ।
[^६] अत्राशुद्धा मातृका ।
[^७] उमानाथनामैव उपधानं कृत्वा जिह्वामञ्चे शयाना असमं श्रमं विमुञ्च ।
[^८] अत आरभ्य पञ्च श्लोकाः शिवसम्बोधनपराः, यत्र अष्टोत्तरशतं शिवनामानि दत्तानि । अर्थिपालक । हेरम्बरूपो बालो यस्य। मृतिकबलिन् अन्तकान्तक । इतकरिन् गजान्तक । सर्गापहारिन् संहारमूर्ते। वसतिः वास: हरितः दिश एव यस्य । अथवा 'वसनहरित्' इति पाठः, दिगम्बर इत्यर्थ: ।
[^९] अत्रापि तथैव । प्रोद्यत्कुमार कुमारजनक । प्रहतमख मखध्वंसिन् । अपर पररहित ।