This page has been fully proofread once and needs a second look.

१०८
 
॥ मलयमारुतः ॥
 

 
मृत्योः शास्ता समस्तार्थिजनसुरतरूस्तारभा: (क्) तारकारे : [^
 
]
स्तावन्ते (वान्ते)[^]मे पुरस्ताच्छिवपुरि वसतस्तारकाख्यातये स्तात् ॥ ९७ ॥
 

 
लोभात्त्वां वासयित्वा स्ववदनसदने [^]गीर्मयापा (या) सितासि

त्वं नित्यं [^ ]चित्तबन्धोचितविविधगुणान् गुम्फयित्वा भवत्या ।

नृभ्यो विक्रेतुमिष्टान् [^५]कदुदरभृतये प्ला ( ? ) [^] तन्मे शयाना

जिह्वामञ्चे विमुञ्च श्रममसममुमाखा मिनामोपधाना[^] ॥ ९८ ॥

 
[^८]
गौरीकान्तार्थिपालिन् भव गर (ल)गरलिन् भर्ग हेरम्बबालिन्

शंभो भालाभिग्निशालिन् मृड मृतिकबलिन् कृत्तिवासः कपालिन् ।

शूलिन् घोसिन्धुधारिन् गिरिश हतकरिन् उम्र सर्गापहारिन्

भीम प्रेतानुसारिन् शिव वसतिहरिन् मारजिद्भूतिभारिन् ॥ ९९ ॥
 

 
[^
]शर्व प्रोद्यत्कुमार प्रहतमख हर व्योमकेशाहिहार
 

स्थाणो वेदान्तसार त्रिपुरजिंदपर श्रीकपर्दिन्नपार ।
 

 
[^
.] तारकारे: स्वपुत्रात् स्कन्दात् तारभाक् प्रणवार्थोपदेशभाक् ।
 
[^
] स्तावान्ते
अस्य स्तोत्रस्य अवसाने तारकाख्यातये तारकमन्त्रोपदेशाय । काश्तामन्त्यकाले
सर्वस्यापि जन्तोः कर्णे शिवस्तारकमन्त्रमुपदिशतीप्र प्रसिद्धिः ।
 

 
[^
.] हे गी: वाणि !
 
[^
.] चित्तबन्धोचितान् नरस्तुतिरूपान् नृभ्यो विक्रेतुमिष्टान्
विविधगुणान् भवत्या गुम्फयित्वा ।
 
[^
.] कदुदरभृतये कुत्सितजठरपोषणाय ।

 
[^
.] अत्राशुद्धा मातृका ।
 
[^
.] उमानाथनामैव उपधानं कृत्वा जिह्वामञ्चे शयाना असमं
श्रमं विमुञ्च ।
 

 
[^८]
अत आरभ्य पञ्च श्लोकाः शिवसम्बोधनपराः, यत्र अष्टोत्तरशतं शिव-
नामानि दत्तानि । अर्थिपालक । हेरम्बरूपो बालो यस्य । मृतिकबलिन् अन्तकान्तक ।
इतकरिन् गजान्तक । सर्गापहारिन् संहारमूर्ते। वसतिः वास: हरितः दिश एव यस्य ।
अथवा 'वसनहरित्' इति पाठः, दिगम्बर इत्यर्थ: ।
 

 
[^
.] अत्रापि तथैव । प्रोद्यत्कुमार कुमारजनक । प्रहतमख मखध्वंसिन् । अपर
पररहित ।