This page has not been fully proofread.

॥ सोमनाथशतकम् ॥
 
भुनन्दायं स कार्य भृतजर रमवयन् भाव्यपायं३ बतायं
तत्रोपायं स्थिराय ४ सपदि वितनुतामेतमायंस्तु ५ काशीम् ।
घरायं दत्वान्तरायं गिरिशगुणगणं साधु गायन्नमायं
पायंपायं चुनद्याः सलिलमनुसरेतं सदम्बासहायम् ७ ॥ ९४ ॥
 
'भूरी भूतार्तिधारी क्षितिभृदनुचरीभावतः पुत्रनारी-
पोषायोद्योगकारी गहनगिरिदरीवार्धिवारिप्रचारी ।
 
दूरीकर्तु शरीरी भ्रममिममुररीकर्तुमन्ते स्मरारी-
भावं चार्यानुसारी १० पिचतु शिवपुरीसिन्धु वारीण्यवैरी १२ ॥ ९.५ ॥
 
यातायातानि कामं महति भववने कर्मशक्तैः क्रियन्तां
कान्तासन्तानवित्तादितरुफलरसं पातुमापातरम्यम् ।
किंतूमाकान्तकल्पद्रुममुकुटफल घोतदानन्दवन्यां
१३ स्थाता पातास्मि दत्तामृतममृतमहं क्लान्तिशान्त्यै नितान्तम् ॥ ९६ ॥
 
१४ शस्ता यस्तात्मचिन्ताविरहितमनसस्तामतस्तापजाता-
ज्जन्तोस्तावन्निरस्तापरणु मजनतस्तारणः स्तावकानाम् १६ ।
 
१०७
 
१. स्वं भागम् । २. भृता जरा यस्मिन् तादृशं कायम् । ३. भाव्य.
पायम् अवयन् जानन् । ४ स्थिर: अय: शुभावही विधिः यस्य तम् । अथवा
स्थिर: आय: लाभः यस्य तम् । ५. आयन् तु काशीम् । ६. अन्तरायभूतं रायं
धनं परेभ्यो दत्त्वा । ७. 'सदम्बा' इत्यत्र 'सदाम्बा' इत्यपि स्यात्पाठः ।
क्षितिभृदनुचरीभावः राजसेवा, ततः । ९. इमं
भ्रमं दूरीकर्तुम् । अन्ते शिवभावमुररीकर्तुं च । १०. आर्यानुसारी सज्जनानुसारी ।
११. शिवपुरी काशी, तत्रस्था सिन्धुः गङ्गा । १२. अवैरी सभ्यस्तवैरभावस्सन् ।
१३. आनन्दवन्यां काश्यां स्थाता, दत्तामृतम् अमृतत्वदायि । अमृतं जलं
गाङ्गं पातास्मि पिबन् अस्मि ।
 
८. बह्वार्तिधरः ।
 
१४ एतावत्पर्यन्तं काशीस्थगङ्गाविषयकाः श्लोकाः । इतः परं तत्रत्यक्षिवपरा:
लौका: । शस्तः हिंसित: आयस्तः तादृश: आत्मचिन्ताविरहितमनाश्च तस्य ।
तापजातात् तापत्रयजातात् तामतः खेदतः । १५ अत्र अशुद्धा मातृका ।
१६. स्तावकानां स्तोतॄणां तारणम् ।
 
>