This page has not been fully proofread.

॥ सोमनाथशतकम् ॥
 
भुञ्जन्दायं स कार्य[^१] स कायं भृतजर[^२]मवयन् भाव्यपायं[^] बतायं
तत्रोपायं स्थिरायं[^] सपदि वितनुतामेतमायंस्तु [^] काशीम् ।
[^६]रायं दत्वान्तरायं गिरिशगुणगणं साधु गायन्नमायं
पायंपायं चुद्युनद्याः सलिलमनुसरेतं सदम्बासहायम् [^] ॥ ९४ ॥
 
'[^८]भूरी भूतार्तिधारी क्षितिभृदनुचरीभावतः पुत्रनारी-
पोषायोद्योगकारी गहनगिरिदरीवार्धिवारिप्रचारी ।

[^९]दूरीकर्तुतुे शरीरी भ्रममिममुररीकर्तुमन्ते स्मरारी-
भावं चार्यानुसारी [^१०] पितु शिवपुरीसिन्धु [^११]वारीण्यवैरी [^१२] ॥ ९.५ ॥
 
यातायातानि कामं महति भववने कर्मशक्तैः क्रियन्तां
कान्तासन्तानवित्तादितरुफलरसं पातुमापातरम्यम् ।
किंतूमाकान्तकल्पद्रुममुकुटफल घोतदानन्दवन्यां
[^१३ ]स्थाता पातास्मि दत्तामृतममृतमहं क्लान्तिशान्त्यै नितान्तम् ॥ ९६ ॥
 
[^१४ ]शस्ता यस्तात्मचिन्ताविरहितमनसस्तामतस्तापजाता-
ज्जन्तोस्तावन्निरस्तापरणु [^१५]मजनतस्तारणः स्तावकानाम् [^१६]
 
[^१] स्वं भागम् ।
 
[^२] भृता जरा यस्मिन् तादृशं कायम् ।
 
[^३] भाव्यपायम् अवयन् जानन् ।
 
[^४] स्थिर: अय: शुभावही विधिः यस्य तम् । अथवा स्थिर: आय: लाभः यस्य तम् ।
 
[^५] आयन् तु काशीम् ।
 
[^६] अन्तरायभूतं रायं धनं परेभ्यो दत्त्वा ।
 
[^७] 'सदम्बा' इत्यत्र 'सदाम्बा' इत्यपि स्यात्पाठः ।
क्षितिभृदनुचरीभावः राजसेवा, ततः ।
 
[^८] बह्वार्तिधरः ।
 
[^९] इमं भ्रमं दूरीकर्तुम् । अन्ते शिवभावमुररीकर्तुं च ।
 
[^१०] आर्यानुसारी सज्जनानुसारी ।
 
[^११] शिवपुरी काशी, तत्रस्था सिन्धुः गङ्गा ।
 
[^१२] अवैरी सभ्यस्तवैरभावस्सन् ।
 
[^१३] आनन्दवन्यां काश्यां स्थाता, दत्तामृतम् अमृतत्वदायि । अमृतं जलं
गाङ्गं पातास्मि पिबन् अस्मि ।
 
[^१४] एतावत्पर्यन्तं काशीस्थगङ्गाविषयकाः श्लोकाः । इतः परं तत्रत्यक्षिवपरा:
लौका: । शस्तः हिंसित: आयस्तः तादृश: आत्मचिन्ताविरहितमनाश्च तस्य ।
तापजातात् तापत्रयजातात् तामतः खेदतः ।
 
[^१५] अत्र अशुद्धा मातृका ।
 
[^१६] स्तावकानां स्तोतॄणां तारणम् ।