This page has not been fully proofread.

॥ सोमनाथशतकम् ॥
 

 
भुनन्दायं स कार्य भृतजर रमवयन् भाव्यपायं३ बतायं

तत्रोपायं स्थिराय ४ सपदि वितनुतामेतमायंस्तु ५ काशीम् ।

घरायं दत्वान्तरायं गिरिशगुणगणं साधु गायन्नमायं

पायंपायं चुनद्याः सलिलमनुसरेतं सदम्बासहायम् ७ ॥ ९४ ॥
 

 
'भूरी भूतार्तिधारी क्षितिभृदनुचरीभावतः पुत्रनारी-

पोषायोद्योगकारी गहनगिरिदरीवार्धिवारिप्रचारी ।
 

 
दूरीकर्तु शरीरी भ्रममिममुररीकर्तुमन्ते स्मरारी-

भावं चार्यानुसारी १० पिचतु शिवपुरीसिन्धु वारीण्यवैरी १२ ॥ ९.५ ॥
 

 
यातायातानि कामं महति भववने कर्मशक्तैः क्रियन्तां

कान्तासन्तानवित्तादितरुफलरसं पातुमापातरम्यम् ।

किंतूमाकान्तकल्पद्रुममुकुटफल घोतदानन्दवन्यां

१३ स्थाता पातास्मि दत्तामृतममृतमहं क्लान्तिशान्त्यै नितान्तम् ॥ ९६ ॥
 

 
१४ शस्ता यस्तात्मचिन्ताविरहितमनसस्तामतस्तापजाता-

ज्जन्तोस्तावन्निरस्तापरणु मजनतस्तारणः स्तावकानाम् १६ ।
 
१०७
 
१.

 
[^१]
स्वं भागम् ।
 
[^
.] भृता जरा यस्मिन् तादृशं कायम् ।
 
[^
.] भाव्य.
पायम् अवयन् जानन् ।
 
[^
] स्थिर: अय: शुभावही विधिः यस्य तम् । अथवा
स्थिर: आय: लाभः यस्य तम् ।
 
[^
.] आयन् तु काशीम् ।
 
[^
.] अन्तरायभूतं रायं
धनं परेभ्यो दत्त्वा ।
 
[^
.] 'सदम्बा' इत्यत्र 'सदाम्बा' इत्यपि स्यात्पाठः ।

क्षितिभृदनुचरीभावः राजसेवा, ततः । ९. इमं
भ्रमं दूरीकर्तुम् । अन्ते शिवभावमुररीकर्तुं च । १०. आर्यानुसारी सज्जनानुसारी ।
११. शिवपुरी काशी, तत्रस्था सिन्धुः गङ्गा । १२. अवैरी सभ्यस्तवैरभावस्सन् ।
१३. आनन्दवन्यां काश्यां स्थाता, दत्तामृतम् अमृतत्वदायि । अमृतं जलं
गाङ्गं पातास्मि पिबन् अस्मि ।
 

 
[^
.] बह्वार्तिधरः ।
 

 
[^९] इमं भ्रमं दूरीकर्तुम् । अन्ते शिवभावमुररीकर्तुं च ।
 
[^१०] आर्यानुसारी सज्जनानुसारी ।
 
[^११] शिवपुरी काशी, तत्रस्था सिन्धुः गङ्गा ।
 
[^१२] अवैरी सभ्यस्तवैरभावस्सन् ।
 
[^१३] आनन्दवन्यां काश्यां स्थाता, दत्तामृतम् अमृतत्वदायि । अमृतं जलं
गाङ्गं पातास्मि पिबन् अस्मि ।
 
[^
१४] एतावत्पर्यन्तं काशीस्थगङ्गाविषयकाः श्लोकाः । इतः परं तत्रत्यक्षिवपरा:

लौका: । शस्तः हिंसित: आयस्तः तादृश: आत्मचिन्ताविरहितमनाश्च तस्य ।

तापजातात् तापत्रयजातात् तामतः खेदतः ।
 
[^
१५] अत्र अशुद्धा मातृका ।

 
[^
१६.] स्तावकानां स्तोतॄणां तारणम् ।
 
>