This page has not been fully proofread.

१०६
 
॥ मलयमारुतः ॥
 
खेदच्छेदः कदा स्यात्प्रभ भव भवतोन्नामितावामकर्णी २
लम्बस्वापावलम्बात् सततभवपथभ्रान्तितः श्रान्तिभाजः ॥ ९० ॥
 
शंभो किं मां विभो हा तयितु३मिह न भो भावमालम्बसे त्वं
नो याचे भोगिभोगोपमितिसह महं भोगमत्रेष्टभोगः ।
नो वा रम्भोरुकुम्भोपमकुचभजनं योगिदम्भोलिपाणे ५
 
किं त्वम्भो मुक्तदम्भोऽर्थय उपरतये भो नभोनिम्नगायाः६ ॥ ९१ ॥
 
या गङ्गाऽपास्य गङ्गाधरमुकुटमगाद्गां तदाज्ञाप्रसङ्गात् ७
कर्तुं जीवाननङ्गान् ' रतिगतइयतान् ( ? ) ९ दुःखभङ्गानुषङ्गात् ।
१° अङ्गाभूदै ( है ) वभङ्गात्यजथ बत वनीवायुसङ्गाद्विहङ्गा (?)
यद्वत्किं भक्तिगङ्गा कथमपि सहते बहनङ्गान् रतिर्नः ॥ ९२ ॥
 
११२ काश्चेद्यान्ति शङ्कामिह बहुमृतितस्तैरलं काय एषोऽ-
लङ्कार्यो गाङ्गपङ्कादिभिरमृतपुरे १२ भीतिरेवं ध्रुवं का ।
आतङ्कानर्हि(ई)मङ्काधिगतगिरिसुतं यातु तं कालजेतुः
भाव१३ कालात्कलङ्काविषयमपि नतं बाणलङ्काधिपाद्यै: १४ ॥ ९३ ॥
 
१. 'मम' इति अत्र शुद्धः पाठः स्यात् । २. भवता शिवेन उन्नामितः
अवामो दक्षिणः कर्णः यथा तथा । लम्बो दीर्घ: स्वाप : मरणमित्यर्थः । काश्यां
म्रियतो नरस्य दक्षिणकर्णे शिवेन राममन्त्रोपदेशः क्रियते हि ।
 
३. तय रक्षणे इति धातुः । ४. सर्पालिङ्गनसदृशम् । ५. योगीन्द्र इति
यावत् । ६ दिव्यसरित: गङ्गायाः अम्भः अर्थये ।
 
·
 
७. शिवाझाप्रसङ्गात् । ८ मुक्तान् । अत्र काम इत्यर्थान्तरेग श्लेषः । एवं
रतिशब्दे च भक्तिगतोऽनुरागभावः कामपत्नी चेति श्लेष: । ९. उपरि अशुद्धा
मातृका । रतिगतहृदयान् इति स्यात् । १०. तृतीयपादोऽशुद्ध:, तुरीयः शुद्धोऽपि
दुरन्वयः ।
 
११. कृपणाः । १२. काश्याम् । १३. कालात् क्रमेण कालजेतु: भावं शिव-
स्वरूपं यातु इत्यन्वयः । अन्यत्सर्व शिवस्वरूपविशेषणम्: १४ बाणरावणाचैर्नतम्