सोमनाथशतकम् /35
This page has been fully proofread twice.
॥ मलयमारुतः ॥
खेदच्छेदः कदा स्यात्प्रभ[^१] भव भवतोन्नामितावामकर्णी[^२]
लम्बस्वापावलम्बात् सततभवपथभ्रान्तितः श्रान्तिभाजः ॥ ९० ॥
शंभो किं मां विभो हा तयितु[^३]मिह न भो भावमालम्बसे त्वं
नो याचे भोगिभोगोपमितिसह[^४]महं भोगमत्रेष्टभोगः ।
नो वा रम्भोरुकुम्भोपमकुचभजनं योगिदम्भोलिपाणे[^५]
किं त्वम्भो मुक्तदम्भोऽर्थय उपरतये भो नभोनिम्नगायाः[^६] ॥ ९१ ॥
या गङ्गाऽपास्य गङ्गाधरमुकुटमगाद्गां तदाज्ञाप्रसङ्गात्[^७]
कर्तुं जीवाननङ्गान्[^८] रतिगतइयतान्( ? )[^९] दुःखभङ्गानुषङ्गात् ।
[^१°]अङ्गाभूदै(है)वभङ्गात्यजथ बत वनीवायुसङ्गाद्विहङ्गा (?)
यद्वत्किं भक्तिगङ्गा कथमपि सहते बहनङ्गान् रतिर्नः ॥ ९२ ॥
[^११]रङ्कश्चेद्यान्ति शङ्कामिह बहुमृतितस्तैरलं काय एषोऽ-
लङ्कार्यो गाङ्गपङ्कादिभिरमृतपुरे[^१२] भीतिरेवं ध्रुवं का ।
आतङ्कानर्हि(ई)मङ्काधिगतगिरिसुतं यातु तं कालजेतुः
भाव[^१३] कालात्कलङ्काविषयमपि नतं बाणलङ्काधिपाद्यै:[^१४] ॥ ९३ ॥
[^१] 'मम' इति अत्र शुद्धः पाठः स्यात् ।
[^२] भवता शिवेन उन्नामितः अवामो दक्षिणः कर्णः यथा तथा । लम्बो दीर्घ: स्वाप : मरणमित्यर्थः । काश्यां म्रियतो नरस्य दक्षिणकर्णे शिवेन राममन्त्रोपदेशः क्रियते हि ।
[^३] तय रक्षणे इति धातुः ।
[^४] सर्पालिङ्गनसदृशम् ।
[^५] योगीन्द्र इति यावत् ।
[^६] दिव्यसरित: गङ्गायाः अम्भः अर्थये ।
[^७] शिवाझाप्रसङ्गात् ।
[^८] मुक्तान् । अत्र काम इत्यर्थान्तरेग श्लेषः । एवं रतिशब्दें च भक्तिगतोऽनुरागभावः कामपत्नी चेति श्लेष: ।
[^९] उपरि अशुद्धा मातृका । रतिगतहृदयान् इति स्यात् ।
[^१०] तृतीयपादोऽशुद्ध:, तुरीयः शुद्धोऽपि दुरन्वयः ।
[^११] कृपणाः ।
[^१२] काश्याम् ।
[^१३] कालात् क्रमेण कालजेतु: भावं शिवस्वरूपं यातु इत्यन्वयः । अन्यत्सर्व शिवस्वरूपविशेषणम्:
[^१४] बाणरावणाघैर्नतम्।