This page has not been fully proofread.

१०२
 
॥ मलयमारुतः ॥
 
१आशाशाली न्यपाली (?) विचरसि परितः किं नृपालीरपाली - २
दर्भालीया वर्णपाली फलति यदुचितं मन्द
 

 
नालीकतात्र५ ।
 
आलीनो गोमचाली(?) ६ विमलहृदयखे' चित्प्रभालीढमूर्तिः
 
कालीशाली' कपाली भवतिमिरहतावँशुमाली विधेयः ॥ ७५ ॥
 
संसारेऽस्मिन्नसारे घनविपिनसमे पन्नगीभूतदारे
 
गर्ताकारोवगारे ९ किमु रजथ १० वृकप्रायमारे जड़ा रे ।
दीनान्पान्तं सुशान्तं शिशिरहिमरुचाऽतीव भान्तं न भान्तंभ
गौरीकान्तं तु कान्तं प्रभजत भजतां वारितान्तं २ नितान्तम् ॥ ७६ ॥
 
अन्योन्यारब्धवादैरभिलषितधना मान्यमप्यूनयन्तो १३
धन्यंमन्या यदान्यान्वशयितुमनसोऽनेहसं हा नयामः ।
१४ वन्यान्नेनाशनायामवनिधरझरेणाप्युदन्यां हरन्तो
धन्यास्तेऽनन्यभावा मह उचित हिमान्यद्रिकन्यं मनन्ति१५ ॥ ७७ ॥
 
१. आशाशाली सन् । 'न्यपाली' इत्यत्र पङ्क्तिर्न शुद्धा । अपालीशब्दोऽत्र
पालकरहित: अनाथ इत्यर्थे स्यात् । २. अपाली: नृपाली: दुष्टसखा नृपगोष्ठी: ।
३. भालीया वर्णपाली ललाटे विधिलिखिता रेखा । ४. हे मन्देति संबुद्धिः ।
५. न अलीकता अत्रेति छेदः । ६. गोप्रचाली वृषभेन चलनशीलः, अथवा
गौत्रचाली पर्वते चलनशील इति वा स्यात् । ७ विमलहृदयाकाशे । ८. कालीदेवी-
सनाथ इत्यर्थ: ।
 
९. उरु अगारं गर्तरूपम् यस्मिन् । १०. भ्वादिः रन्ज्-धातुरन्त्र ग्राय: ।
११. भाया: प्रकाशस्य अन्तो यस्मिन्नास्ति, तम्; ज्योतिर्मयमित्यर्थ: । १२ भजतां
वारितान्त: मृत्युनिवारकः, तम् ।
 
१३. मान्यं मानार्हमपि ऊनयन्तः हीनं कुर्वन्त: । १४ वन्यमन्नमभन्तो
गिरिनदीजलं पिबन्तश्च । १५. उचितहिमान्यद्रिकन्यं पार्वतीसहितं महः तेज:
येऽनन्यभावा: मनन्ति आमनन्ति ।