सोमनाथशतकम् /31
This page has been fully proofread twice.
॥ मलयमारुतः ॥
[^१]आशाशाली न्यपाली(?) विचरसि परितः किं नृपालीरपाली-[^२]
[^३]र्भालीया वर्णपाली फलति यदुचितं मन्द[^४] नालीकतात्र[^५] ।
आलीनो गोमचाली(?)[^६] विमलहृदयखे[^७] चित्प्रभालीढमूर्तिः
कालीशाली[^८] कपाली भवतिमिरहतावंशुमाली विधेयः ॥ ७५ ॥
संसारेऽस्मिन्नसारे घनविपिनसमे पन्नगीभूतदारे
गर्ताकारोवगारे[^९] किमु रजथ[^१०] वृकप्रायमारे जड़ा रे ।
दीनान्पान्तं सुशान्तं शिशिरहिमरुचाऽतीव भान्तं न भान्तं[^११]
गौरीकान्तं तु कान्तं प्रभजत भजतां वारितान्तं[^१२]नितान्तम् ॥ ७६ ॥
अन्योन्यारब्धवादैरभिलषितधना मान्यमप्यूनयन्तो[^१३]
धन्यंमन्या यदान्यान्वशयितुमनसोऽनेहसं हा नयामः ।
[^१४]वन्यान्नेनाशनायामवनिधरझरेणाप्युदन्यां हरन्तो
धन्यास्तेऽनन्यभावा मह उचितहिमान्यद्रिकन्यं मनन्ति[^१५] ॥ ७७ ॥
[^१] आशाशाली सन् । 'न्यपाली'इत्यत्र पङ्क्तिर्न शुद्धा । अपालीशब्दोऽत्र पालकरहित: अनाथ इत्यर्थे स्यात् ।
[^२] अपाली: नृपाली: दुष्टसखा नृपगोष्ठी: ।
[^३] भालीया वर्णपाली ललाटे विधिलिखिता रेखा ।
[^४] हे मन्देति संबुद्धिः ।
[^५] न अलीकता अत्रेति छेदः ।
[^६] गोप्रचाली वृषभेन चलनशीलः, अथवा गौत्रचाली पर्वते चलनशील इति वा स्यात् ।
[^७] विमलहृदयाकाशे ।
[^८] कालीदेवीसनाथ इत्यर्थ: ।
[^९] उरु-अगारं गर्तरूपम् यस्मिन् ।
[^१०] भ्वादिः रन्ज्-धातुरन्त्र ग्राय: ।
[^११] भाया: प्रकाशस्य अन्तो यस्मिन्नास्ति, तम्; ज्योतिर्मयमित्यर्थ: ।
[^१२] भजतां वारितान्त: मृत्युनिवारकः, तम् ।
[^१३] मान्यं मानार्हमपि ऊनयन्तः हीनं कुर्वन्त: ।
[^१४] वन्यमन्नमभन्तो गिरिनदीजलं पिबन्तश्च ।
[^१५] उचितहिमान्यद्रिकन्यं पार्वतीसहितं महः तेज: येऽनन्यभावा: मनन्ति आमनन्ति ।