This page has been fully proofread twice.

॥ मलयमारुतः ॥
 
संसारं निर्विचारं प्रशमयितुमहं दुःखभारं ह्यपारं
वारंवारं तु सारं जटिलमतिसितं दग्धमारं स्मरामि ॥ ६७ ॥
 
नाशापाशातु पाशावदपि....(?)कृशा यद्भृशाकृष्यमाणा
यातायातानि जाताभ्यधिकविकलताः कुर्वते तावदेते ।
मायानायादपायादवितजनचया तद्व्ययार्थं मयाऽसौ
[^१]तारा ताराद्यताराधिपशकलधरा मूर्तिराराधनीया ॥ ६८ ॥
 
योषासङ्गाः प्रदोषा इव कृतमनस:[^२] प्रीतिपोषाय नामी
कोषाश्चोरोत्थमोषाञ्चिरतरमवतो मे वतृष्णापहन्त(?)[^३] ।
[^४]कामस्येर्षाहरोषामनुसरणकृत:[^५] क्लृप्तमायाधिशोषा-
मीडे तोषाय दोषाकरलसदलिकां व्यक्तिमेकामदोषाम् ।। ६९ ।।
 
पुत्रा मे सच्चरित्राधिकविहितमुद्रः प्रेमपात्राणि मित्रा-
ण्यापन्नत्रासगोत्रा[^६] यदपि युवतयः पद्मनेत्रार्थचित्रा:[^७] ।
कोऽपि त्राता बतात्रास्ति न यमभयतो नन्दिपत्रा[^८] पवित्रा
मूर्ति: पित्रा च मात्रा सहगिह तु जयत्यन्तकत्रासिगोत्रा[^९] ॥ ७० ॥
 
[^१] उच्चता | तारायाः तदाद्यानां नक्षत्राणां चाधिपः चन्द्रः, तच्छुकलधरा ईश्वरमूर्तिः।
 
[^२] कृतधिय: पुरुषस्य।
 
[^३] 'मे न तृष्णापहत्यै' इति शुद्धः पाठः स्यात् ।
 
[^४] कामेर्ष्याहारिरोषाम् ।
 
[^५] भजनविधायिनः ।
 
[^६] आपन्नत्रासं पापाद् भयशील गोत्रं वंशः, तद्भवा युवतयः, शिष्टा इति यावत् ।
 
[^७] पद्मनेत्राश्च अर्थचित्राश्चेति योजनीयम् |
 
[^८] नन्दिवाहना |
 
[^९] गौत्रशब्दोऽत्र नामवाची । यन्नामकीर्तनेन अन्तकस्त्रस्तोऽपगच्छति ।