सोमनाथशतकम् /29
This page has been fully proofread once and needs a second look.
॥ मलयमारुतः ॥
संसारं निर्विचारं प्रशमयितुमहं दुःखभारं ह्यपारं
वारंवाररं तु सारं जटिलमतिसितं दग्धमारं स्मरामि ॥ ६७ ॥
नाशापाशातु पाशावदपि....(?) कृशा यद्भृशाकृष्यमाणा
यातायातानि जाताभ्यधिकविकलताः कुर्वते तावदेते ।
मायानायादपायादवितजनचया तद्व्ययार्थथं मयाऽसौ
'[^१]तारा ताराद्यताराधिपशकलधरा मूर्तिराराधनीया ॥ ६८ ॥
योषासङ्गाः प्रदोषा इव कृतमनस: [^२] प्रीतिपोषाय नामी
कोषाश्चोरोत्थमोषाञ्चिरतरमवतो मे वतृष्णापहन्त (?)[^३ ।
] ।
[^४]कामस्येर्षाहरोषामनुसरणकृत: [^५] क्लृप्तमायाधिशोषा-
मीडे तोषाय दोषाकरलसदलिकां व्यक्तिमेकामदोषाम् ।। ६९ ।।
पुत्रा मे सच्चरित्राधिकविहितमुद्रः प्रेमपात्राणि मित्रा-
ण्यापन्नत्रासगोत्रा [^६] यदपि युवतयः पद्मनेत्रार्थचित्रा: [^७] ।
कोऽपि त्राता बतात्रास्ति न यमभयतो नन्दिपत्रा'[^८] पवित्रा
मूर्ति: पित्रा च मात्रा सहगिह तु जयत्यन्तकत्रासिगोत्रा[^९] ॥ ७० ॥
[^१] उच्चता | तारायाः तदाद्यानां नक्षत्राणां चाधिपः चन्द्रः, तच्छुकलधरा
ईश्वरमूर्तिः।
[^२] कृतधिय: पुरुषस्य।
[^३] 'मे न तृष्णापहत्यै' इति शुद्धः पाठः
स्यात् ।
[^४] कामेर्ष्याहारिरोषाम् ।
[^५] भजनविधायिनः ।
[^६] आपन्नत्रासं पापाद् भयशील गोत्रं वंशः, तद्भवा युवतयः, शिष्टा इति
बा यावत् ।
[^७] पद्मनेत्राश्च अर्थचित्राश्चेति योजनीयम् |
[^८] नन्दिवाहना |
[^९] गौत्रशब्दोऽत्र नामवाची । यन्नामकीर्तनेन अन्तकस्त्रस्तोऽपगच्छति ।
संसारं निर्विचारं प्रशमयितुमहं दुःखभारं ह्यपारं
वारंवा
नाशापाशातु पाशावदपि....(?)
यातायातानि जाताभ्यधिकविकलताः कुर्वते तावदेते ।
मायानायादपायादवितजनचया तद्व्ययार्
योषासङ्गाः प्रदोषा इव कृतमनस:
कोषाश्चोरोत्थमोषाञ्चिरतरमवतो मे वतृष्णापहन्त
[^४]कामस्येर्षाहरोषामनुसरणकृत:
मीडे तोषाय दोषाकरलसदलिकां व्यक्तिमेकामदोषाम् ।। ६९ ।।
पुत्रा मे सच्चरित्राधिकविहितमुद्रः प्रेमपात्राणि मित्रा-
ण्यापन्नत्रासगोत्रा
कोऽपि त्राता बतात्रास्ति न यमभयतो नन्दिपत्रा

बा
[^७] पद्मनेत्राश्च अर्थचित्राश्चेति योजनीयम् |
[^८] नन्दिवाहना |
[^९] गौत्रशब्दोऽत्र नामवाची । यन्नामकीर्तनेन अन्तकस्त्रस्तोऽपगच्छति ।