This page has been fully proofread twice.

॥ सोमनाथशतकम् ॥
 
सारासाराविचाराद् वयमहितपरा हन्त दारान्भजामः
[^१]कारागाराणि मारावनिपवशतरास्तज्जजीवानुरागा:[^२] ।
आरादाराघनीयं न तु मदनरिपुं जन्ममाराम्बुधारा-
पारावारावतारानुगुण[^३]मनुचराराम[^४]माराधयामः ॥ ६४ ॥
 
अङ्गासङ्गादनङ्गाल्पविषयसुखदात्कामिनीनां प्रसङ्गात्
[^५]पञ्चाभ्यङ्गांस्तरङ्गानिव पलसमयेनाकलय्याशुस(भ?)ङ्गान् ।
[^६]गङ्गाभङ्गात्तरङ्गामभयवरकुठारान्तिकोद्यत्कुरङ्गा-
मङ्गाव्यङ्गामनङ्गारितनुमनुदिनं चिन्तयाञ्चद्भुजङ्गाम् ॥ ६५ ॥
 
[^७]पाखण्डाचारिदण्डार्हण उपसरता दानशौण्डान्वितण्डा-
वादैरिद्धेन रण्डार्जव(न?)पटुवचसा[^८] हा मयाऽनाय्यनेहा[^९] ।
ध्याता न विन्दुखण्डाकलितसदलिका मूर्तिरानद्धमुण्डा
गण्डालोलाहितुण्डा निजभजनकृते दत्तपण्डा[^१०] प्रचण्डा ॥ ६६ ॥
 
सारङ्गाक्षीं सहारं रहसि न कलये चारुतारङ्गवर्णो
नोदारं सानुकारं ललितमपि भजे गानमिष्टाङ्गहारम्[^११] ।
 
[^१] दारा एव कारागाराणि ।
 
[^२] तज्जजीवा दारजाः पुत्राः ।
 
[^३] जननमरणरूपा अम्बुप्रवाहा: पारावारेऽवतीर्णा इव यस्मिन् विलयमाप्नुवन्ति ।
 
[^४] अनुचराणामारामभूतम् ।
 
[^५] पञ्चाभ्यङ्गान् पञ्चेन्द्रियविषयलेपान् तरङ्गानिव अल्पकालेन आशुभङ्गान् क्षिप्रनाशिन आकलय्य ।
 
[^६] द्वितीयार्धेन अनङ्गारितनोर्वर्णनम् । गङ्गाभङ्गैस्तत्तरङ्गैरात्तः
रङ्गः वर्णः शोभा यया ताम् । अथवा गङ्गाभङ्गोत्तरङ्गाम् इति पाठ: स्यात् ।
 
[^७] पाखण्डाचारिदण्डाहणे तादृशे दण्डथे जने दानशौण्डान् उपसरता इत्यन्वयः ।
 
[^८] रण्डाया: तादृश्या: स्त्रिय: आर्जने पटु वचो यस्य तेन ।
 
[^९] अनेहा दिवस: मया अनायि इत्यन्वयः ।
 
[^१०] निजभजनकृते जनाय दत्तपुण्या ।
 
[^११] अङ्गहार: गात्रविक्षेपरूपं नृत्तमुपलक्षयति ।