This page has been fully proofread once and needs a second look.

॥ सोमनाथशतकम् ॥
 
सारासाराविचाराद् वयमहितपरा हन्त दारान्भजामः
'[^१]कारागाराणि मारावनिपवश तरास्तज्जजीवानुरागा: [^]
आरादाराघनीयं न तु मदनरिपुं जन्ममाराम्बुधारा-
पारावारावतारानुगुणश्[^३]मनुचराराम [^४]माराधयामः ॥ ६४ ॥
 
अङ्गासङ्गादनङ्गाल्पविषयसुखदात्कामिनीनां प्रसङ्गात्
"[^५]पञ्चाभ्यङ्गांस्तरङ्गानिव पलसमयेनाकलय्याशुस (भ?) ङ्गान् ।
ङ्गान् ।
[^६]
गङ्गाभङ्गात्तरङ्गामभयवर कुठारान्तिकोद्यत्कुरङ्गा-
मङ्गाव्यङ्गामनङ्गारितनुमनुदिनं चिन्तयाञ्चद्भुजङ्गाम् ॥ ६५ ॥
 
'[^७]पाखण्डाचारिदण्डार्हण उपसरता दानशौण्डान्वितण्डा-
वादैरिद्धेन रण्डार्जव (न?) पटुवचसा'[^८] हा मयाऽनाय्यनेहा[^]
ध्याता न विन्दुखण्डा कलितसदलिका मूर्तिरानद्धमुण्डा
गण्डालोलाहितुण्डा निजभजनकृते दत्तपण्डा [^१०] प्रचण्डा ॥ ६६ ॥
 
सारङ्गाक्षीषीं सहारं रहसि न कलये चारुतारङ्गवर्णो
नोदारं सानुकारं ललितमपि भजे गानमिष्टाङ्गहारम् [^११
 
] ।
 
[^
.] दारा एव कारागाराणि ।
 
[^
.] तज्जजीवा दारजाः पुत्राः ।
 
[^
.] जननमरण-
रूपा अम्बुप्रवाहा: पारावारेऽवतीर्णा इव यस्मिन् विलयमाप्नुवन्ति ।
 
[^
.] अनु.
चराणामारामभूतम् ।

[^
] पञ्चाभ्यङ्गान् पञ्चेन्द्रिय विषयलेपान् तरङ्गानिव अल्पकालेन आशुभङ्गान्
क्षिप्रनाशिन आकलय्य ।
 
[^
] द्वितीयार्धेन अनङ्गारितनोर्वर्णनम् । गङ्गाभङ्गैस्तत्तरङ्गैराचःत्तः
रङ्गः वर्णः शोभा यया ताम् । अथवा गङ्गाभङ्गोत्तरङ्गाम् इति पाठ: स्यात् ।

[^
.] पाखण्डाचारिदण्डाहणे तादृशे दण्डथे जने दानशौण्डान् उपसरता
इत्यन्वयः ।
 
[^
.] रण्डाया: तादृश्या: स्त्रिय: आर्जने पटु वचो यस्य तेन ।

[^
.] अनेहा दिवस: मया अनायि इत्यन्वयः ।
 
[^
१०.] निजभजनकृते जनाय दत्तपुण्या ।

[^
११] अङ्गहार: गात्रविक्षेपरूपं नृत्तमुपलक्षयति ।