This page has been fully proofread once and needs a second look.

गौरीयुक्ताङ्कभागां वलयितभुजगां भूरिभस्माङ्गरागां

मौलिव्यालीनगङ्गां श्रिततुहिननगां क्लृप्तकन्दर्पभङ्गाम् ।

मुण्डोरुस्रग्धरां तां मुनियतिनिरतां वेदबृन्दानुगीतां
 

नौमि ब्रह्माद्या (द्वयां?) तां गगननिवसितां शंभुमूर्ति प्रशान्ताम् ॥ ५६ ॥
 

 
द्वारे द्वारे परेषां प्रगटगुणगलो भ्रामितो नामितास्थो

वेषाद्यैर्हास्यदोऽहं प्लवग इव युवा दण्डवत्या युवत्या ।

तत्त्वास्तामस्तशक्तिं सजरसमरसं मां तथा नर्तयन्ती
 

तृष्णे कृष्णानने किं न कलयसि कृपां किंचिदद्याप्यवद्ये ॥ ५७ ॥
 

 
नानादानानि मानाग्रसर ३मकरवं हेतुहीनानि नाहं

दीनानां चाशनायामशमयमुचितेनान्नपानादिना न ।

आसन्नानां जनानामभिमतमपि नापूरयं निर्धनाना-

मन्नान्येवांघमानामघस"मणुमन ६ हा धनाढ्योऽप्यनर्थः७ ॥ ५८ ॥
 

 
श्यामा दृश्यापि रामा यदपि तदपि सा हन्त लाभातिवामा

यामालोक्याभिरामाननुसरति नरो नैव धामादिकामान् ।
 

क्षामात्मा हीनघामा क्षणमपि विकलो न त्रियामासु शेते
 

मा मा याहीति गामालपति च वितथं तेन तामाश्रयेन्न ॥ ५९ ॥
 

 
१. दिगम्बराम् ।
 

२. याचकत्वात् स्तुतियाच्या दिव्यञ्जककण्ठगुणा:, प्लवगपक्षे कण्ठबद्धरज्जुः ।
 
प्रगटः प्रकटः ।
 

३. मानपूर्वाणि दानानीत्यर्थः । ४.
निर्व्याजानि ।
 
. मानपूर्वाणि दानानीत्यर्थः । ४.
अभक्षयम् । ६. फल्गुहृदयः । ७. धनाढ्योऽपि दरिद्र इव ।
 

८. लाभादनन्तरमत्यन्तं वामतां गता ।
 
13
 
अभक्षयम् ।