This page has been fully proofread twice.

॥ मलयमारुतः ॥
 
भीतामेतां कृतान्ता[^१]दवसि (न) जनतामानतां सर्ववेत्तां (त्ता)
त्वं चेत्तन्मुञ्च मुञ्च त्रिजगति गदितं नामजातं स्वकीयम् ।
भूतेशो विश्वनाथस्त्रिपुरहरशरः श्रीमहादेव ईशः
स्थाणुर्मृत्योर्विजेता गरभुगथ शिवः शङ्करः शम्भुरेतत् ॥ ५३ ॥
 
[^२]सोमः कामोऽभिलाषो मम च समतमाश्चित्त(ज)त्वाद्रतेर्वा
योग्यत्वात्त्वद्गतत्वाद्वहुतरसुमनःसंमतत्वात्सतोत्थं (समोऽहम्?) ।
सख्यं द्वेषोऽप्युपेक्षा यदिह भवतु तत्ते महेश प्रभुत्वात्
दृग्वैषम्यादपि त्रीक्षण[^३]मपि तु न किं शङ्करः शं करोषि ॥ ५४ ॥
 
[^४]म्लानेनेत(न)स्य गेहे स्थितमधिकवसोः पर्वकाले मयोच्चै-
रभ्यस्तं भ्राम्यता च प्रसरणमहह प्रत्यनन्तं करस्य ।
दत्तांशेनाऽमराणां भजनमधिकृतं नामतः कर्मतश्च
प्राप्तं सोमत्वमित्थं तदपि मदुदयो देव राजाशया न ॥ ५५ ॥
 
इति प्रथमपञ्चाशिका ॥
 
[^१] अवसि न, न रक्षसि । आनतां त्वामुद्दिश्य प्रणताम् । त्वं सर्ववेत्ता न रक्षसि चेत् उपरि निर्दिश्यमानं दीनावनार्थकं सर्वं ते नाम मुञ्च ।

[^२] सोमश्चन्द्रः, ग्रन्थकृञ्च । एतत्त्रयं शिवग्रन्थकृतोस्समतमम् । चित्तजत्वात्, सोमस्य, 'चन्द्रमा मनसो जातः' इति ऋचः । रतेर्वा योग्यत्वादित्ययं काम इत्यनेन अन्वेति । स्वद्गतत्वादिति अमिलाष इत्यमुं परामृशति । शिवविषयकामिलाषस्य भक्तानां सत्त्वात् । ग्रन्थकृद्विषये सोम इति नाम; कामाभिलाषौ च स्वरसतः स्तः । अन्यच्च ग्रन्थकृत् शिवेन स्वसमस्वमाह बहुतर इति । सुमनसो देवाः, पण्डिताश्च ।

[^३] ईक्षणत्रयवत्तवात् दृष्टिप्रकारत्रयं सख्यं, द्वेषः, उपेक्षा वा भगवत उपपद्यते ।

[^४] अत्र ग्रन्थकृतः नामतः सोमत्वात्, स्वस्य च चन्द्रस्य च श्लेषद्वारा साम्यं व्यतिरेकश्च वर्ण्येते। म्लानेन, कलाक्षीणेन दुर्गतेन । इनस्य सूर्यस्य प्रभोश्च । अधिकवसोः प्रभूतकिरणस्य तथाविधवित्तस्य च । भ्रान्तिरुभयस्य समाना । करस्य प्रसरणं किरणविस्तार :, याच्जया हस्तप्रसरणं च । अनन्तं प्रति, आकाशे; अन्यत्र अनन्तान् जनान्प्रति । चन्द्रः कलाभिः अमराणां पोषणं करोति, कवि: भक्तस्सन् तत्तत्समर्प्य देवानां भजनं करोति । एतावतापि हे देव ! शम्भो मदुदयो राजाशया न । राजा चन्द्रः प्रभुश्च ।