This page has been fully proofread twice.

॥ सोमनाथशतकम् ॥
 
केशा: शेषाहिवर्णा वदनमपि वलीघारि दन्ताः समन्तात्
जाता: पाताददृश्या वचनमवशगं हन्त दोषाः सपोषाः ।
श्रोत्रं गोत्रं[^१] शृणोति स्वमपि न नयनं क्लिन्नमङ्गं सभङ्गं
स्वान्तं भ्रान्तं मुहुस्ते स्मरसि न किमु रे मारहन्तुः परं तु ॥ ४९ ॥
 
आयुर्दायं प्रभावाद्विपुलमथ मितं जन्तुजाताय दद्युः
घुस्थानस्था ग्रहा ये विविधगतियुता जीव[^२]मुख्यास्तथापि ।
वृद्धत्वं प्राप्य तेऽस्तं कतिपयदिवसैरेव यान्तीति बुद्ध्वा
वृद्धा भूस्था(त्वा)पि जीवाः स्वहितमहह नो कुर्वते
ते(ऽन्तेऽ)न्तिकस्थे[^३] ॥ ५० ॥
 
[^४]दोषोपद्रुत्यनूनं भवगदमशितुं यस्य केऽप्युद्यता नो
वृद्धस्यापथ्यवृत्तेः किमपि न धनिनस्तेन काशीष्ववाप्य ।
[^५]विश्वेशादेर्गणस्याङ्घ्रिदशकयुगलं स्वौषधं सिद्धबुद्धं
सन्मात्रं त्रासहीनं प्रतिदिनमरुणार्काङ्घ्रियोगेन सेव्यम् ॥ ५१ ॥
 
सत्सङ्गः सर्वकालं सललितवचनं सादरत्वं स्वधर्मे
संकष्टे खन्तदाढर्यै सुतयुवतिसुखे स्तोकसंसक्तभावः ।
संतोष: स्वल्पलाभात्सकलजनहिताशंसिता स्वामिसेवा
सामर्थ्ये सौम्यवृत्तिः सदयहृदयता संसृतेः [^६]सादहेतुः ॥ ५२ ॥
 
[^१] गोत्रं नाम ।
 
[^२] जीवो बृहस्पति: । उपरि जीवा : प्राणिनः ।
 
[^३] अन्ते मरणे अन्तिकस्थेऽपि ।

[^४] दोषोपद्रुति-अनूनमिति च्छेदः । यस्य धनिनोऽपि वृद्धस्य गदनाशनाय केsपि नो उद्यता इत्यन्वयः ।

[^५] 'विश्वेशं माधवं दुपिंढ दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥' इति काशीस्थदैवतदशकं विश्वेशादेर्गणस्येत्यनेनोच्यते । दशानां पदयुगलमिति । क्वचित्काशीस्थदैवतदशकस्य निर्देशो मनागन्यथापि दृश्यते ।

[^६] साद: अवसादः ।