This page has not been fully proofread.

९४
 
॥ मलयमारुतः ॥
 

 
अक्ष्णोरष्लतत्वं स्वरविकृतिरतिस्तब्धभावश्च गत्या

वैवर्ण्य गात्रकम्पः प्रलय इति दशा यद्वशेनाभिगम्याः ।

प्राप्तावज्ञां जरास्त्रीं समधिकवलितां मौलिना तां भजन्तं
 

कान्ता स्वं वीक्ष्य नाथं प्रथममनुरताऽप्यन्तिकं नोपयाति ॥ ४४ ॥
 

 
पादौ संस्तम्भयन्ती मुखमपि नमयत्यङ्गमाकुञ्चयन्ती

हस्तावुत्कम्पयन्ती प्रणयिजनवचो न श्रुती श्रावयन्ती ।

रत्यामुद्वेजयन्ती वलिततनुमतो नूतनोढा जरा वा

तुल्या पूर्वा तु पुंसस्त्रसति बत परा भीतिहेतुर्नरस्य ॥ ४५ ॥

 
'बालं कृष्णं प्रसूनार्चितमनवरतं यः पुरासाद्य मूर्ध्ना

युक्तः पङ्क्त्या द्विजानां शुचितरवपुषाभीप्सितान्नान्यभुङ्क्त ।

सोऽयं तन्नो दृशाप्याकलयति बिभृते चापि नैकं द्विजं हा

वृद्धत्वे किंतु जन्तु: स्वजठरपिठरं कष्टरूपं बिभर्ति ॥ ४६ ॥

 
वालैरात्तं सितत्वं निजमिति गलिता लजयेव द्विजालिः

तस्या दृष्टैव दैन्यं नयनयुगमगादन्धतां खिन्नमन्तः ।

वार्ती श्रुत्वेति दुःखांकुलमिव बधिरं कर्णयुग्मं च जातं

ज्ञात्वापि स्वाप्तपेर्विपदमिति कथं जीवितं स्थातुमीष्टे ॥ ४७ ॥
 

 
आसीत् पूर्वे सुहृत्ताद्यलस उपचितोऽप्यज्ञ सत्सु द्विजेषु

क्षीणत्वे तु द्विजेषु व्यसनिषु पतितेष्वद्य प (य) द्यादरस्ते ।

किं स्यादस्यां दशायां तव हितमुचितं किंचिदाख्यामि संख्यात्

मन्त्रं सप्ताक्षरं त्वं जप सुगमममुं पाहि भो मामुमाप' ॥ ४८ ॥
 

 
१. बालकृष्णं नाम देवं पुष्पैः पूजयित्वा प्रणम्य च । अन्यत्र कृष्णं तद्वर्ण वालं

केशभारं प्रसूनालङ्कतं शिरसि लब्ध्वा । द्विजा: दन्ताः, भोजनोपविष्टा ब्राह्मणाश्च ।

शुचि शुद्धमुज्ज्वलं च । एवं यौवनं वर्णितं भवति ।