This page has been fully proofread once and needs a second look.

॥ सोमनाथशतकम् ॥
 

 
क्षुद्रैरन्तर्बहिर्यन्निचितमनुचितैर्जन्तुभिः कालगत्या
 

विस्रं प्रस्रावि जीर्णं क्षणमपि रुचिरं मार्जनाद्यैर्विना न ।

देहं गेहं च तुल्यं परमिह निघने गेहमन्योपयुक्तं
 

स्यान्नो देहं; सतीत्थं न तदुपकृतये जीवतो यस्य तं धिक्१ ॥ ३९ ॥
 

 
मूकत्वान्नग्नभाषान्मललुलिततनोरुक्तयोगाच्च दुःखाद्

बाल्यं पैशाच्यमुच्चैः कथमपि शनकैर्यावदेतद्वयपेतम् ।

बिभ्रद्दोष प्रकोपं करचरणमपीतस्ततो भ्रान्तनेत्र-

स्वान्तं निक्षेपयन् हा सपदि तरुणिमोरुज्वरोऽलम्भि तावत् ॥ ४० ॥
 

 
तारुण्यारण्ययातोऽप्यहह किमु न रे सावधानोऽसि जन्मिन्

हन्युस्त्वां व्यप्ग्रमुग्राः प्रचलितमभितो व्यापकाः पञ्च चैकम् ।

कोपो द्वीपी प्रपञ्चोऽहिरपि मद इभो मत्सरः सूकरेशो

दम्भो भल्लूक एषोऽसमशरशरणो मन्मथश्चोरनाथः ॥ ४१ ॥

 


 
यातायातं विधत्ते सुखम सुशफरी कायकासारदेशे

यावत्संफुल्लचक्षुर्मुरवकरचरणाम्भोजराजीविराजि ।

स्फूर्जद्वानीरपूरे बहिरमलतरे तावदत्तुं स्थितस्तां
 

कुर्वन् मन्दं पदं स्वं बत पलितबको वञ्चकः कुञ्चिताङ्गः ॥ ४२ ॥
 

 
सं
शीर्णा हन्त दन्ता नवयुवतिरदाच्छादन३च्छेददक्षा-

श्चक्षुर्नोद्वीक्षणेऽपि क्षण (म) महह रह: स्त्रीकटाक्षानुभावि ।

कर्णौ बाधिर्यपूर्णौ बत निपुणवधूचाटु संश्रुत्य फुल्लौ
 

निर्लज्जो जन्तुरेवं सति वहति रतिं योषिति त्यक्तरत्याम् ॥ ४३ ॥
 

 
१.
 
यस्य जीवतः पुंसः तत् देहं न उपकृतये, परोपकृतये न भवति, तं पुमांसं
धिक् । २ जन्तो । ३. रदाच्छादनम् अधरः ।