सोमनाथशतकम् /21
This page has been fully proofread twice.
॥ मलयमारुतः ॥
दुष्टेऽस्मिन्भोगिभावे[^१] श्रवणरहितता विष्णुसेविद्विषत्ता
द्वैजिह्यं जिह्यगत्वं परहतिपटुताऽध:स्थलोके निवासः ।
भोगच्छेदे विपत्तिः सपदि च तदिदं सर्वमर्ह पर तत्
चित्रं वाताशनत्वं न यदिह न हि वा भोगसंकोचिता यत् ॥ ३५ ॥
श्रीरामापुत्रधामाद्यधिगत(ति?)विषयां सुज्ञ चिन्तां त्यजैतां
प्राचीनं कर्म शर्म प्रवितरति विना प्रार्थनेन व्यथावत्[^२] ।
चिन्तामात्रेण वित्ताद्यधिगतिरिति चेकिं न सर्वे समृद्धाः
किंतु स्यादङ्गसादो धुतिनिघनमपि प्रत्युतास्याप्रसादात् ॥ ३६॥
सारं सारङ्गनेत्रा जगति न हि भवेदन्तवैरस्यदात्री
[^३]मा वामावास्यकाया रजनिरिव तमोदूषिता नैव सारम् ।
नो [^४]वीनोऽपीष्टपुत्रादिकविषयचयः सारमस्थैर्यपात्रं
[^५]सन्नासन्नाय गोप्यं स्वहितमुपदिशन्नेक एवास्ति सारम् ॥ ३७ ॥
नेहे गेहेषु सौख्यं धनतनयहयप्रेष्यदासीपशुभ्यो
भोगान् रोगानमुख्यान्न तु रतचतुरा नो नवाः कान्तकान्ताः ।
प्राज्यं राज्यं न भूमेररिपु न बत वा शेवधीन् दीनबन्धो
शम्भो दम्भोलिपाणेर्न पदमपि चलं किन्तु देहि स्वदास्यम् ॥ ३८ ॥
[^१] भोगिभावः भोगशालिता, सर्पभावः । श्रवणम् ईश्वरगुणसस्कथादिश्रवणं श्रवणेन्द्रियं च । विष्णुसेवी गरुडः, अन्यत्र भागवतः । अध:स्थलोकः पाताकः, अन्यत्र निकृष्टगोष्ठी ।
[^२] "अप्रार्थितानि दुःखानि यथायान्तीह देहिनाम् । सुखान्यपि तथा" इत्युक्तिरनुस्मार्यात्र ।
[^३] मा वा लक्ष्मीर्वा । अमावास्यकाया अमावास्याया: रजनिरिव ।
[^४] पीनोऽपि स्थूलोऽपि इष्टपुत्रादिकविषयचयः ।
[^५] सबा सन् ना साधुः गुरुरूपः पुमान् । आसन्नाय शिष्यभावेनोपसन्नाय गोप्यं मन्त्रादिकम् । स एक एव सारभूतः ।