This page has been fully proofread twice.

॥ सोमनाथशतकम् ॥
 
कान्ताकान्तारभूमिं परिहर सर रे चित्तमातङ्ग दूरं
शूरो मध्यो (मृत्यु: ?) मृगारिः सततमदयुतं मर्दयेत्तत्र तु त्वाम् ।
सत्येवं च त्वदन्तर्मिलितमपहरेन्मारभिल्लो विवेकं
मुक्ता सङ्घ महार्घ्यं सुजनसमुचितं रागगुञ्जैकयोग्यः ॥ ३० ॥
 
दृक्पातेनान्नपानाभिलषणविरतिं कान्तिशान्ति तनुत्वं
स्वापान्तं भ्रान्ततां ह्रीहतिमथ वचनोच्चावचत्वं ददत्या ।
मायाविन्या स्वभावाद्गलितशुचितया निर्दयत्वं दधत्या
श्लिष्टे योषापिशाच्या निजरसवशतः पुंसि सौख्यं कथं स्यात् ॥ ३१ ॥
 
नार्यङ्गानां [^१]यदङ्गोपमितिरधिगता ते कुरङ्गादयो यां
पुष्यत्यन्यं फलैर्या हरति परमलं या च नद्या खतोत्था (तो या?) ।
तामुन्मुच्याटवीं किं श्रयसि मृगदृशं पोषणीयां प्रयत्नैः
क्लिन्नामन्तर्बहिश्च प्रबलमलशतैर्वञ्चितः काव्यगोष्ठया ॥ ३२ ॥
 
श्वश्रूः साधित्यकैव श्वशुर उहरगः (उटजक:?) श्यालका भूरुहोऽर्हाः
श्याल्यो वल्लयो विचित्राः सखि कुलममलं श्वापदानां कदम्बम् ।
भार्या [^२]दर्यार्ययोग्या सुतततिरपि सत्कर्मणां पङ्क्तिरग्रे
मुञ्चन्ती प्रीतये मे फलनिकरमिति प्रार्थित कर्हि सिध्येत् ॥ ३३ ॥
 
भोगा रोगास्त्वपूर्वा गुणविषमतया देहिनं व्याप्नुवन्तो
निघ्नन्तो विप्रयोगे दिनकरभजनादौषधाच्चानिवार्याः ।
प्राप्य प्रायो युवानं विहितविकृतयः प्राणिभिः काङ्क्षणीयाः
सत्येवं हन्त जानन्नपि भजति कथं स्वापदेरीति (ऽरीनि)वामून् ॥ ३४ ॥
 
[^१] यदङ्गोपमितिः कुरङ्गाद्यङ्गोपमितिः । ते यामटवीमधिगताः । परमलं नद्या या अटवी हरति, या च स्वतः सर्वमिदं करोति ।

[^२] दरी आर्ययोग्या इति च्छेदः ।