सोमनाथशतकम् /18
This page has been fully proofread once and needs a second look.
लोको मातेव यस्या इति भवतु पुनर्योगतः सा कथञ्चित् ।
यत्प्राप्यापत्यवत् तां[^१] वहति निजतनौ स[^२] व्ययात्पाति भीतः
पुष्णाति प्रत्यहं च त्यजति न मनसाप्यन्तकालेऽतिरागात् ॥ २२ ॥
नृभ्योऽग्नौ स्वस्य धातुद्रवणमथ जले मज्जनं छेदनं तः (तैः ?)
शस्त्रैः संदंशयोगोऽनलमिलनमयस्ताडनं जन्मनीति ।
दीनाराद्यर्थसार्थो व्यथनकृदखिलं संस्मरन् किं समर्थ-
स्तज्जातीयांस्तथैव व्यथयति धनिनो बन्धभूक्षेपखिन्नः ॥ २३ ॥
आः किं भुङ्क्षे त्वमाशीविषविषवदिमां मारयन्तीं जनानां
कार्ता(?)पस्वादुतैव (ऽस्मारतैव?) स्फुरति भवति वा यद्वशात्कण्ठरोधः ।
किंतु श्रेयोऽधिगन्तुं भज भवभिषजं तं विषादं[^३] विषादं[^४]
त्यक्त्वा त्वां तत्र सक्तं कृपणमपि कृपा यस्य पायादपायात् ॥ २४ ॥
इति लक्ष्मीनिन्दा
कारागारं बत स्त्री विसहगि[^५]ति पतिः सापराधं यदन्यं
बघ्नात्यस्मिन्करार्थी न किमपि यतते रक्षणे चास्य बद्धः ।
अस्यां तूदेति बन्धः क्षरदवधि[^६] करग्राहिणः पत्युरेव
प्रायोऽस्याः पालनादौ वहति च नितरां तादृशोऽप्येष चिन्ताम् ॥ २५ ॥
[^१] लक्ष्मीम् ।
[^२] लोकः ।
[^३] विषमन्तीति विषादः शिवः तम् ।
[^४] दुःखम् ।
[^५] अन्यादृशम् । सामान्ये कारागारे पतिः राजादिक: अपराधिनं तथा अन्यमेव नरं, स्वयं ततः करार्थी वा बध्नाति; बन्धनानन्तरं कारागारस्य रक्षणार्थं न बतते । विशिष्टे स्त्रीनामके कारागारे तु करार्थी पाणिं गृह्णाति पतिः, स्वयमात्मानमेव झाति; स च बन्धो निरवधिकः; स्त्रीरूपकारागृहस्य पालनार्थं च सदा चिन्तासुरी भवति ।
[^६] निरवधि ।