This page has been fully proofread twice.

॥ मलयमारुतः ॥
 
यं कंचित्सञ्चितस्वं कुवचनरचनं नैव याचस्व किंचित्
त्वामित्थं चित्त ! याचे तव रुचिरथ चेद्याचने याच्य ईशः ।
[^१]भिक्षार्थित्वेन जानन्व्यसनमिव पृथु प्रार्थितव्यर्थतोत्थं
सामर्थ्याद्विश्वनाथः कथमपि वृथयत्यर्थनामर्थिनां न ॥ १८ ॥
 
याचन्तां केचिदाढ्यं पुरपतिमितरे देशनाथं तथान्ये
दिग्रक्षं केचनैके क्षितिपतिमपरे स्वर्पति स्वल्पचि(वि?)त्तम् ।
याचेऽहं तु त्रिलोकीपदसदधिकृतब्रह्मवाणीत्रिवेणी[^२]-
प्रावीण्यावर्णनीयागणितगुणगणं श्रीमहादेवमेव ॥ १९ ॥
 
इति याचकनिन्दा ॥
 
लक्ष्मीरेषा विषादप्यतिशयविषमा सेवमानोऽनिश यां
तं मोहं याति जन्तुः कथमपि विरतिंर्मन्त्रतन्त्रैर्न यस्य ।
व्यामोहं तत्तु[^३] सात्म्येन जनयति भवन्सो[^४] ऽपि तै[^५]स्ति जय्यः
[^६]सर्वज्ञोऽधत्त निःखोऽप्यत इव बंत तत्तां[^७]विहायाब्धितीरे[^८] ॥ २० ॥
 
[^९]सुज्ञाऽकस्माद्भवन्त्या दृशमथ रजसा पश्यतां दूषयन्त्या
यत्किंचित्कम्पयन्त्या निकटगत(म)[^१०]मृदुं शब्दमाश्रावयन्त्या ।
उन्मार्गेणोच्चलन्त्या सपदि कमलया वात्ययेवाभिभूताः
के के भ्रान्त्या पतेयुर्न जगति तृणवत्तूर्णमुड्डीय पूर्वम् ॥ २१ ॥
 
[^१] स्वयमिति शेषः ।
 
[^२] त्रिवेणी लक्षणया नदीत्रयप्रवाह: । तादृशवाग्धाव्याप्यवर्णनीयेत्यादि ।
 
[^३] विषम् ।
 
[^४] व्यामोहः ।
 
[^५] मन्त्रतन्त्रैः ।

[^६] शिवः
 
[^७] तत् विषम्, ताम् लक्ष्मीम् ।
 
[^८] समुद्रमथने समुत्थितयोः विषलक्ष्म्योर्मध्ये सर्वज्ञः शिवो लक्ष्मीं विहाय विषमधत्त ।

[^९] 'सुझ' इति मातृकास्थं पदं दुरन्वयम्; 'शून्ये' इति स्यात्समीचीन: पाठोऽत्र, यतः शून्ये पूर्वं दरिद्रे पुरुषे अकस्माद्धनं भवति, वात्या च तथा शून्ये आकाशे अकाण्डे भवति ।
 
[^१०] निकटगं यत्किञ्चित्, अमृदुं शब्दमित्यन्वयः ।