सोमनाथशतकम् /17
This page has been fully proofread once and needs a second look.
॥ मलयमारुतः ॥
यं कंचित्सञ्चितस्वं कुवचनरचनं नैव याचस्व किंचित्
त्वामित्थं चित्त ! याचे तव रुचिरथ चेद्याचने याच्य ईशः ।
१भिक्षार्थित्वेन जानन्व्यसनमिव पृथु प्रार्थितन्व्यर्थतोत्थं
सामर्थ्याद्विश्वनाथः कथमपि वृथयत्यर्थनामर्थिनां न ॥ १८ ॥
याचन्तां केचिदाढ्यं पुरपतिमितरे देशनाथं तथान्ये
दिग्रक्षं केचनैके क्षितिपतिमपरे स्वर्पति स्वल्पचि ( वि?) त्तम् ।
याचेऽहं तु त्रिलोकीपदसदधिकृतब्रह्मवाणीत्रिवेणी२-
प्रावीण्यावर्णनीयागणितगुणगणं श्रीमहादेवमेव ॥ १९ ॥
इति याचकनिन्दा ॥
लक्ष्मीरेषा विषादप्यतिशयविषमा सेवमानोऽनिश यां
तं मोहं याति जन्तुः कथमपि विरतितिंर्मन्त्रतन्त्रैर्न यस्य ।
व्यामोहं तत्तु३ सात्म्येन जनयति भवन्सो४ ऽपि तैर५स्ति जय्यः
६सर्वज्ञोऽधत्त निःखोऽप्यत इव बंत तत्तां ७विहायाब्धितीरे'८ ॥ २० ॥
९सुज्ञाऽकस्माद्भवन्त्या दृशमथ रजसा पश्यतां दूषयन्त्या
यत्किंचित्कम्पयन्त्या निकटगत (म) १° ०मृदुं शब्दमा श्रावयन्त्या ।
उन्मार्गेणोच्चलन्त्या सपदि कमलया वात्ययेवाभिभूताः
के के भ्रान्त्या पतेयुर्न जगति तृणवत्तूर्णमुड्डीय पूर्वम् ॥ २१ ॥
१. स्वयमिति शेषः । २. त्रिवेणी लक्षणया नदीत्रयप्रवाह: । तादृशवाग्-
धाव्याप्य वर्णनीयेत्यादि । ३. विषम् । ४. व्यामोहः । ५. मन्त्रतन्त्रैः ।
६. शिवः ७. तत् विषम्, ताम् लक्ष्मीम् । ८. समुद्रमथने समुत्थितयोः
विषलक्ष्म्योर्मध्ये सर्वज्ञः शिवो लक्ष्मीं विहाय विषमधत्त ।
९. 'सुझ' इति मातृकास्थं पदं दुरन्वयम्; 'शून्ये' इति स्यात्समीचीन:
पाठोऽत्र, यतः शून्ये पूर्ववं दरिद्रे पुरुषे अकस्माद्धनं भवति, वात्या च तथा शून्ये
आकाशे अकाण्डे भवति । १०. निकटगं यत्किञ्चित्, अमृदुं शब्दमित्यन्वयः ।
यं कंचित्सञ्चितस्वं कुवचनरचनं नैव याचस्व किंचित्
त्वामित्थं चित्त ! याचे तव रुचिरथ चेद्याचने याच्य ईशः ।
१भिक्षार्थित्वेन जानन्व्यसनमिव पृथु प्रार्थित
सामर्थ्याद्विश्वनाथः कथमपि वृथयत्यर्थनामर्थिनां न ॥ १८ ॥
याचन्तां केचिदाढ्यं पुरपतिमितरे देशनाथं तथान्ये
दिग्रक्षं केचनैके क्षितिपतिमपरे स्वर्पति स्वल्पचि
याचेऽहं तु त्रिलोकीपदसदधिकृतब्रह्मवाणीत्रिवेणी२-
प्रावीण्यावर्णनीयागणितगुणगणं श्रीमहादेवमेव ॥ १९ ॥
इति याचकनिन्दा ॥
लक्ष्मीरेषा विषादप्यतिशयविषमा सेवमानोऽनिश यां
तं मोहं याति जन्तुः कथमपि विर
व्यामोहं तत्तु३ सात्म्येन जनयति भवन्सो४ ऽपि तै
६सर्वज्ञोऽधत्त निःखोऽप्यत इव बंत तत्तां
९सुज्ञाऽकस्माद्भवन्त्या दृशमथ रजसा पश्यतां दूषयन्त्या
यत्किंचित्कम्पयन्त्या निकटगत
उन्मार्गेणोच्चलन्त्या सपदि कमलया वात्ययेवाभिभूताः
के के भ्रान्त्या पतेयुर्न जगति तृणवत्तूर्णमुड्डीय पूर्वम् ॥ २१ ॥
१. स्वयमिति शेषः । २. त्रिवेणी लक्षणया नदीत्रयप्रवाह: । तादृशवाग्
६. शिवः ७. तत् विषम्, ताम् लक्ष्मीम् । ८. समुद्रमथने समुत्थितयोः
९. 'सुझ' इति मातृकास्थं पदं दुरन्वयम्; 'शून्ये' इति स्यात्समीचीन: