सोमनाथशतकम् /16
This page has been fully proofread twice.
॥ सोमनाथशतकम् ॥
द्वारेद्वारे परेषामविरतमटति द्वारपालैः करालैः
दृष्ट्वा यष्ट्याहतम्सन् रणति गणयति स्वापमानं तु नैव ।
क्षन्तुं शक्नोति नान्यं स्वसदृशमितरागारमप्याश्रयन्तं
श्राम्यत्यात्मोदरार्थे कथमहह शुना नो समो याचकस्सः ॥ १३ ॥
पङ्गोर्भावं वरं न त्वणुतरमनसां याचनायाङ्घ्रियानं
मूकत्वं वा वरं न त्वपलपितगुणं देहिदेहीति वाणी ।
जन्मान्धत्वं वरं न त्वधमधनवतामास्यभङ्गस्य वीक्षा
बाधिर्ये वा वरं न त्वतिपरुषगिरः संश्रुतिः प्रार्थितानाम् ॥ १४ ॥
स्वैर्लोकैर्योऽनुगम्य: प्रथममसदपि प्राप्नुयाद्यो गुणित्वं
पश्चाद्विन्द्याद्गुरुत्वं ध्रुवमुदयति यः प्राणहीनो[^१] वरं सः ।
न त्वर्थी योऽतिहेयो द्रुतमुचितजनैर्यश्च सिद्धं गुणित्वं
मुञ्चेद्योचे(दञ्चे?)लघुत्वं महदहह न वा याति जातूदयं यः ॥ १५ ॥
धन्यं वन्यं हि मन्ये तृणमतनुगुणग्राहिकः कोऽपि लोको
मूर्धन्याधाय धाम स्वमभिनयति यत्सर्वदा[^२]नन्ददायि ।
धिग्व्यर्थं त्वर्थिनं तं पृथुगुणमपि यं वीक्षतेऽपि क्षणं नो
दूरोद्विग्नो जनो न प्रणमति न नयत्यात्मगेहं च तत्किम् ॥ १६ ॥
चौर्य कार्यं तदा यैर्निजमुदरदरीपूरणं नो भवेच्चेद्
उच्चैर्नीचत्वहेतुं न तु विदधतु ते याचनं यातनार्थम् ।
यस्माच्चोरा: सुराजानुमतविधिवशाच्छूलपीठोपवेशाद्
उच्चत्वं तत्प्रयान्ति स्फुरति करतलोत्तानता[^३] नैव तत्र ॥ १७ ॥
[^१] प्राणहीन: प्रेतः, शवः, य : श्मशानयात्रायां स्वीयैरनुगम्यते; गुणित्वं, गुणैः पाशै : बद्धुत्वं याति; क्रमेण गुरुर्भवति वाहकानां; मरणानन्तरं च उदयति पुनर्जन्मनि । अर्थी याचकस्तु शवादपि निकृष्टः ।
[^२] सर्वदा धेनुः, गौणं नामेदम् ।
[^३] याचनकर्मप्रयुक्तमुत्तानितकरप्रसारणम् ।