This page has been fully proofread twice.

॥ मलयमारुतः ॥
 
त्वं चेन्नीचत्वभीतः किमपि सुखमिह स्थातुकामोऽसि तद्भो
विद्वन् ! मुञ्चापराशा[^१] मसदृशमुचितां हन्त पत्युर्जडानाम्[^२] ।
एतामालम्ब्य दीनामनुदिनमिनवत्प्राग[^३] वात्यो(प्तो)दयत्वेऽ-
प्यत्युच्चत्वेऽपि के के न हि बहुविंपदं दीप्तिमन्तोऽपि यान्ति ॥ ८ ॥
 
विद्याभ्यासाख्यमाद्ये वयसि गुरुगृहे भूरि दुःखं मयाप्तं
वित्तप्राप्त्याशया च प्रचुरधरणिभृत्सेवनाह्वं द्वितीये ।
तार्तीयीके सकामव्रतयजनजपध्यानरूपं परं तु
प्रापि कापीप्सितं नो तदपि न चरमे मुच्यते हा दुराशा ॥ ९ ॥
 
मातस्तात प्रभो भो नयनविषयिते पादुके यन्मया ते
तत्पुण्यं पूर्वजानामिति रचितवचा: शौचमाचारमुज्झन् ।
जात्युच्चो नीचभूपानुपचरति तथाप्यौदरीं नैति पूर्ति
सत्येवं हन्त जन्तुर्भजति न तु कथं विश्वदं विश्वनाथम् ॥ १० ॥
 
भीतिव्रीडाविहीनो गहनगिरिदरीरन्यदीयान्गृहान्वा
सेवेतापास्य धर्मं नयमपि सपदि प्रायशो यद्वशो ना ।
आशा सैषा मनोजा रतिपतिभगिनी कामशत्रो![^४] ततस्तां
जन्तुक्लेशैकहेतुं तमिव[^५] बहुकृते किन्न भस्मीकरोषि ॥ ११ ॥
 
श्रेयस्वी यत्र मानं व्रजति दुरितकृत् चापमानं मनुष्यै-
रज्ञेयं तत्र दूतैः प्रभुमनु मनुजो नीयते चानपेक्षः ।
मृत्योर्गेहं वरं तन्न तु कुधनवतो यत्र सर्वापमानो
लोकैर्विज्ञायमानः स्वयमतिथितया यत्र चार्थी प्रयाति ॥ १२ ॥
 
[^१] अपराशा, एकत्र अपरा अश्लाघ्या आशा तन्नामा मनोभावः । अन्यत्र अपरा आशा पाश्चात्या दिक् ।
 
[^२] जडानां पति: महाजड, जलानां पति: वरुणश्च, यस्य अपरा वारुणी आशा दिक् उचिता ।
 
[^३] प्राक् पूर्व प्राची च ।
 
[^४] हे शिव ।
 
[^५] काममिव ।