This page has not been fully proofread.

८६
 

 
॥ मलयमारुतः ॥
 

 
त्वं चेन्नीचत्वभीतः किमपि सुखमिह स्थातुकामोऽसि तद्भो

विद्वन् ! मुञ्चापराशा मसदृशमुचितां हन्त पत्युर्जडानाम् २ ।

एतामालम्ब्य दीनामनुदिनमिनवत्प्राग श्वात्यो (प्तो) दयत्वेऽ-

प्यत्युच्चत्वेऽपि के के न हि बहुविंपदं दीप्तिमन्तोऽपि यान्ति ॥ ८ ॥
 

 
विद्याभ्यासाख्यमाद्ये वयसि गुरुगृहे भूरि दुःखं मयाप्तं

वित्तप्राप्त्याशया च प्रचुरधरणिभृत्सेवनाह्वं द्वितीये ।

तार्तीयीके सकामव्रतयजनजपध्यानरूपं परं तु
 

 
प्रापि कापीप्सितं नो तदपि न चरमे मुच्यते हा दुराशा ॥ ९ ॥
 

 
मातस्तात प्रभो भो नयनविषयिते पादुके यन्मया ते

तत्पुण्यं पूर्वजानामिति रचितवचा: शौचमाचारमुज्झन् ।

जात्युच्चो नीचभूपानुपचरति तथा प्यौदरीं नैति पूर्ति
 

 
सत्येवं हन्त जन्तुर्भजति न तु कथं विश्वदं विश्वनाथम् ॥ १० ॥
 

 
भीतिव्रीडाविहीनो गहन गिरिदरीरन्यदीयान्गृहान्वा

सेवेतापास्य धर्मं नयमपि सपदि प्रायशो यद्वशो ना ।

आशा सैषा मनोजा रतिपतिभगिनी कामशत्रो ! ४ ततस्तां

जन्तुक्लेशैकहेतुं तमिव ५ बहुकृते किन्न भस्मीकरोषि ॥ ११ ॥

श्रेयस्वी यत्र मानं व्रजति दुरितकृत् चापमानं मनुष्यै-

रज्ञेयं तत्र दूतैः प्रभुमनु मनुजो नीयते चानपेक्षः ।

मृत्योर्गेहं वरं तन्न तु कुधनवतो यत्र सर्वापमानो

लोकैर्विज्ञायमानः स्वयमतिथितया यत्र चार्थी प्रयाति ॥ १२ ॥
 

 
१. अपराशा, एकत्र अपरा अश्लाघ्या आशा तन्नामा मनोभावः । अन्यत्र

अपरा आशा पाश्चात्या दिक् । २. जडानां पति: महाजड, जलानां पति: वरुणश्च,

यस्य अपरा वारुणी आशा दिक् उचिता । ३. प्राक् पूर्व प्राची च । ४. हे शिव ।

५. काममिव ।