सोमनाथशतकम् /14
This page has been fully proofread once and needs a second look.
आशायोषा स्वतन्त्रा व्रजति परगृहान् सर्वदा वीतलज्जा ।
संधत्ते मत्कृशत्वं मम यमनियमौ भ्रातरौ भर्त्सयन्ती
पुष्ट्वा दम्भं स्वबन्धुं तदपि कथमहं हन्त वन्ध्यां श्रयामि ॥ ३ ॥
आशा सैषाऽवलोकच प्रचुरपरवसु प्रैषयन्मां तदर्थे
नानादेशानटित्वार्जयमथ तदहं लोभपुत्रानुयातः ।
दम्भं संगम्य मित्रं तदनु मदमहास्तेननिःस्वीकृतत्वात्
खिन्नोऽप्येनां कुनाथः कथमहह पुनः प्रेरयन्तीं भजेयम् ॥ ४ ॥
द्वारेद्वारे परेषां तमसि विलसिते रत्यवाप्त्यै भ्रमन्त्या
स्वस्त्रीसक्त्याऽन्यदीयां रतिमविदधतम्तान्मृषा विद्विषन्त्या |
मुञ्चन्त्या लोकलजामहह कुलटयेवाशया दूषितो ना१
प्रायश्चित्तं गृहीतुं किमपि न यतते संगयोग्यो हि नो ना[^१] ॥ ५ ॥
आविर्भूतप्रदोषां प्रवितततमसा निर्मितां भूरिजन्तु-
प्रागल्भ्यं दारयन्तीं द्युतिनिधनकरीं भानिधेरप्यतीव |
आलम्ब्याशानिशां यो विचरति परितः किं न स स्यात्पिशाच-
श्चित्रं त्वेतच्चितायां न वसति लभते नाप्यदृश्यत्वमेषः ॥ ६ ॥
आशा निष्ठा प्रतिष्ठा किल मम महिलास्तासु सौख्यं कदाचित्
या प्रान्त्या सा प्रदद्यादिह किमपि तथा मध्यमा सा परत्र ।
आद्या सा नोभयत्राप्यहह तदपि किं सक्ततां यामि तस्यां
या प्रौढ्यादप्रगल्भे प्रतिदिवसमुभे ते कदर्थीकरोति ॥ ७ ॥
[^१] नरः ।